________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भू. ॥२०॥
.अ.का.
बास०३
हमस्मि भो इति श्रावयन्नित्यर्थः ॥ ३२ ॥ अञ्चलो गृह्य अनलिं प्रगृह्य "सक्थिनि कर्णे वा गृहीत्वा" इति महाभाष्यकारवचनात् । अञ्जलाविति कर्मणि सप्तमी ॥ ३३ ॥ तस्मै इति । अभ्युदितम् उन्नतम् ॥३४॥ तदिति । आसनवरं प्राप्य तदासनं स्वयैव प्रभया व्यदीपयत् । विमलो रविरुदये मेरुं । प्राप्येव । सूर्यस्य प्रधानमेरुप्राप्तेः साक्षादभावात् अत्र मेरुशब्देनास्तादिसमीपवर्ती सावर्णिमेरुरुच्यते । उदयश्चोत्तरवर्षस्थितसिद्धपुरवासिजनापेक्षया ।। तं दृष्ट्वा प्रणतं पायें कृताञ्जलिपुटं नृपः । गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ॥ ३३॥ तस्मै चाभ्युदितं सम्यङ्मणिकाञ्चनभूषितम् । दिदेश राजा रुचिरं रामाय परमासनम्॥३४॥ तदासनवरं प्राप्य व्यदीपयत राघवः। स्वयैव प्रभया मेरुमुदये विमलो रविः ॥ ३५॥ तेन विभ्राजता तत्र सा सभाभिव्यरोचत । विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ॥ ३६॥ तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् । अलंकृतमिवात्मानमादर्शतलसंस्थि
तम् ॥ ३७ ॥ स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः। उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः॥ ३८॥ इयमुदयास्तमयव्यवस्था सूर्यसिद्धान्ते आर्यभट्टे च प्रसिद्धा-"भूवृत्तपादे पूर्वस्यां यवकोटीति विश्रुता। भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा ॥ याम्यायां । भारते वर्ष लङ्का तद्वन्महापुरी। पश्चिमे केतुमालाख्ये रोमकेति च कीर्तिता । उदसिद्धपुरी नाम कुरुवर्षे प्रतिष्ठिता ॥ उदयो यो लङ्कायां सोऽस्तमयः । सवितुरेव सिद्धपुरे । मध्याह्ने यवकोट्यां रोमकविषये अर्धरात्रं स्यात् ॥ भारतादिषु वर्षेषु तद्वदेव परिभ्रमन् । मध्योदयार्द्धरात्रांस्तु कालान् कुर्यात्प्रद क्षिणम्॥” इति ॥ ३५ ॥ तेनेति । विधाजता प्रकाशमानेन । विमलग्रहनक्षत्रेति दृष्टान्तबलेन दशरथवसिष्ठादिभिरीपत्प्रकाशितत्वमवगम्यते ॥३६॥ तमिति । पश्यमानः पश्यन् । आदर्शतलसंस्थितमित्यनेन रामस्य मुखनासिकाचरणादिसर्वावयवेन पितृसरूपत्वमावेदितम् ॥३७॥ स इति । सस्मित प्रेमास्पदतया तृप्तिर्नाभूदिति सूच्यत इति रहस्यम् ॥ २९-३२ ॥ तमिति । अञ्जलो गृह्य गृहीत्वा तं समाकृष्य, सस्वजे आलिलिङ्ग ॥ ३३ ॥ तदिति । राघवः आसनवरं प्राप्य स्वयैव प्रभया स्वशरीरकान्त्या तदासनं व्यदीपयत, भासमानं चकारेत्यर्थः ॥ ३४ ॥ तेनेति । सा सभा वसिष्ठदशरथादिभिर्धाजितापि तेन रामेणैव व्यरोचत विशेषेण चकाशे । नक्षत्रादियुक्ता द्यौरिन्दुनेव ॥ ३५ ॥ ३६ ॥ तमिति । अलंकृतमादर्श स्थितमात्मानं दृष्ट्वा यथा तुष्यति जनः तदा दशरथः श्रीरामं दृष्ट्रा तुतोषेत्यर्थः ॥ ३७ ॥ आभाष्य रामेति सम्बोध्य ॥ ३८॥ ३९ ॥
॥२०॥
For Private And Personal Use Only