________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कान्तशब्दः । चन्द्रात्कान्ताननमिति विग्रहः । अनेनावयवशोभावत्त्वमुक्तम् । रामं विग्रहगुणैः स्वरूपगुणैश्च रमयन्तम् । समुदायशोभावत्त्वमाह अतीव प्रियदर्शनमिति । निरन्तरदर्शनेपि प्रतिक्षणं नवनवीभूतदर्शनम् । रूपौदार्यगुणैः रूपं विग्रहः, औदार्य अनुभवितृभ्योनुभवदानम् । “य आत्मदा वळदा " इतिश्रुतेः । गुण्यते सदानुसन्धीयत इति गुणः । " गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु ” इति निघण्टुः । तेन सदानुसन्धीयमानं सौशील्यमुच्यते । अहो महानयमस्मादृशेषु क्षुद्रेष्वप्यतिसंश्लेषेण वर्तत इति सर्वदानुसन्धीयमानत्वात् । पुंसामिति कठिनचित्तानामपि किमुत
चन्द्रकान्ताननं राममतीव प्रियदर्शनम् । रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ॥ २८ ॥ धर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः । न ततर्प समायान्तं पश्यमानो नराधिपः ॥ २९ ॥ अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् । पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ॥ ३० ॥ स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः । आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ॥ ३१ ॥ स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके । नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः ॥ ३२ ॥ स्त्रीणामिति भावः । यद्वा पुंशब्देन स्त्रीपुंससाधारणमात्ममात्रमुच्यते "पुमानेको व्यवस्थितः " इति श्रीविष्णुपुराणे प्रयोगात् । तेन सुरनर तिर्यगादिभेदभिन्नानां स्त्रीपुन्नपुंसकभेदभिन्नानां सर्वेषां दृष्टिचित्तापहार उक्तः । वक्ष्यति रामविरहे स्थावरजङ्गमवस्तुमात्रं परिम्लानमिति । यद्वा पुंसामपि रामं पश्यतां स्त्रीभूत्वाहममुमनुभवेयमित्यभिलाषो भवति । यथाहुः- “ पाञ्चाल्याः पद्मपत्राक्ष्याः स्वायन्त्या जघनं घनम् । याः स्त्रियो दृष्टवत्यस्ताः पुम्भावं मनसा ययुः ॥” इतिं । पश्यमान इति निर्निमेषदर्शनमुक्तम् । न ततपैंति प्रतिक्षणमनुभवेपि नवनवप्रेमास्पदतया न तृप्ति ७ रभूदित्यर्थः ॥ २७-२९ ॥ अवतार्येति । अवतारणं हस्तप्रदानादिना ॥ ३० ॥ ३१ ॥ स प्राञ्जलिरिति । अभिप्रेत्य प्राप्य । प्रणतः " दण्डवत् प्रणमेद्भूमा चुपेत्य गुरुमन्वहम् " इत्युक्तप्रक्रियया दण्डवत् प्रणत इत्यर्थः । स्वं नाम श्रावयन् “ शर्मेति ब्राह्मणस्योक्तं वर्मेति क्षत्रियस्य च " इतिवचनाद्रामवर्मा सदानुसन्धीयमानं सौशील्यमुच्यते । महानयमस्मादृशेष्वप्यतिक्षुद्रेप्यतिसंश्लेषेण वर्तत इति सदानुसन्धीयमानत्वात् । पुंसामिति कठिनचित्तानां दृष्टिचित्तापहारि णम, किमुत खीणामिति भावः ॥ २७ ॥ २८ ॥ धर्माभितप्ता इति । धर्माभितप्ताः प्रीप्नाभितप्ताः प्रजाः ह्रादयन्तं पर्जन्यभिव स्थितम् समायान्तम् स्वसमीप मागच्छन्तं रामं नराधिपो दशरथः पश्यमानः सन् न तर्ष तृप्तिं न प्राप्तः अत्र पश्यमान इत्यनेन निर्निमेषदर्शनमुक्तम् । न तनर्णेत्यनेन प्रतिक्षणमनुभवे नवनव
For Private And Personal Use Only