________________
Shri Mahavir Jain Aradhana Kendra
प्रा. रा.भू. ॥ १९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनतिक्रम्य कृतमिति प्रीतौ हर्षयुक्तौ । प्रीतिर्मनोगतो हर्षः, मानसप्रीतिजन्यरोमाञ्चादिशरीरविकारो हर्षः तद्युक्ती । पूर्वश्लोके निवेद्येत्यनेन शेष सम्पादनविषयनिवेदनमुक्तम् । अनूतामिति पूर्वोक्तसकलसिद्धिविषयमिति न पुनरुक्तिः ॥ २१ ॥ तत इति । कृतात्मा सुशिक्षितबुद्धिः । शीघ्रागमन इतुरयम् । “ आत्मा जीवे धृतौ बुद्धौ ” इत्यमरः ॥ २२ ॥ २३ ॥ अथेति । अथ सुमन्त्रनिर्गमनानन्तरम् । तत्र प्रासादे । समासीनाः सम्यगुपविष्टाः । ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् । रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥ २२ ॥ स तथेति प्रति ज्ञाय सुमन्त्रो राजशासनात् । रामं तत्रानयाञ्चक्रे रथेन रथिनां वरम् ॥ २३ ॥ अथ तत्र समासीनास्तदा दशरथं नृपम् । प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ॥ २४ ॥ म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिनः । उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम् ॥ २५ ॥ तेषां मध्ये स राजर्षिर्मरुतामिव वासवः । प्रासादस्थो रथगतं ददर्शायान्तमात्मजम् ॥ २६ ॥ गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् । दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् ॥ २७॥ प्राच्या इत्यादौ "धुप्राग्- " इत्यादिना यदादयः शैौपिका भवार्थाः । म्लेच्छाचार्याः म्लेच्छप्रभवः । अन्तशब्दः प्रदेशवाची । प्राच्येत्यादिना शैलान्त वासिन इत्यन्तेन मूलभृत्य श्रेणिसुहृद्विपाटविकमिति षडविधबलोपास्यत्वं सार्वभौमचिह्नमुक्तम् ॥ २४ - २६ ॥ गन्धर्वराजेत्यादि । गन्धर्वराजप्रतिमं भोगस्रोतःप्रावण्यवेपसौन्दर्येषु गन्धर्वराजौपम्यम् । न केवलं भोगधारारसिकत्वेन वीररसानभिज्ञत्वमित्याह लोके विख्यातपौरुषम् । पौरुषोपयुक्त संहननवत्त्वमाह दीर्घबाहुमिति । न केवलं शिरीषपुष्पसुकुमार बाहुत्वेनान्तःसाररराहित्यमित्याह महासत्त्वमिति । तदनुगुणगतिविशेषमाह मत्तमातङ्ग गामिनमिति । सगर्वसलीलगमनं मदालसगमनं वा विवक्षितम् । चन्द्रकान्ताननं चन्द्राननमित्युक्ते प्याह्लादकत्वादिसिद्धेर्निरतिशयाह्लादकत्वं द्योतयितुं तत इति । कृतात्मा सुशिक्षितबुद्धिः ॥ २२-२६ ॥ गन्धर्वराजेत्यादि लोकत्रयमेकं वाक्यम् । गन्धर्वराजप्रतिमं गन्धर्वश्रेष्ठ सुन्दरमित्यर्थः । गन्धर्व राजौपम्यान केवलं भोगमात्ररसिकत्वम्, किन्तु वीररसाभिज्ञत्वमपीत्याह - विख्यातपौरुषमिति । पौरुषापयुक्त संहननवत्त्वमाह- दीर्घबाहुमिति । न केवलं शिरीषकुसुम सुकुमारबाहुत्वेनान्तः सारराहित्यमित्याह- महासत्त्वमिति । तदनुगुणगतिविशेषमाह मत्तमातङ्गगामिनमिति । सगर्वसलीलगमनं मदालसगमनं वा विवक्षितम् । चन्द्राननमित्यनेनाह्लादकत्वसिद्धे निरतिशयाह्लादकत्वं द्योतयितुं कान्तेत्युक्तम् । तेन प्रत्यवयवशोभावत्वं दर्शितम् । रामं विग्रहगुणैः स्वरूपगुणैश्च | रमयन्तम् । समुदायशोभावत्वमाह- अतीवप्रियदर्शनमिति । रूपौदार्यगुणैः रूपं विग्रहः, औदार्यमनुभवितृभ्योनुभवदानं गुण्यते सदानुसन्धीयत इति गुण इति
| ॥ १९॥
For Private And Personal Use Only
टी.अ.कां.
स०३