________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दयानन्तरमेव श्वः परेद्युः । स्वस्तिवाचनं भविता तदर्थे ब्राह्मणाश्च निमन्त्र्यन्ताम् आहूयन्ताम् । आसनानि तेषामिति शेषः । आबध्यन्तां प्रतिगृहमिति | शेषः ॥ १६ ॥ सर्व इति । तालैवचरन्ति जीवन्तीति तालावचराः नर्तकादयः । कक्ष्यां द्वितीयामिति अन्तः कक्ष्यायामभिषेकप्रवृत्तंस्तत्र च ब्राह्मणैर्वस्त व्यत्वादिति भावः ॥ १७॥ देवायतनचैत्येषु देवगृहेषु चतुष्पथेषु चेत्यर्थः । अन्नभक्षैः सह वर्त्तन्तइति सान्नभक्षाः । अन्नमोदकहस्ता इतियावत् । माल्य
सर्वे च तालावचरा गणिकाश्च स्वलंकृताः । कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ॥ १७ ॥ देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः । उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथकपृथक ॥ १८ ॥ दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः। महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् ॥ १९ ॥ एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनि ष्ठितौ । चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ॥ २० ॥ कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् । यथोक्त वचनं प्रीतो हर्षयुक्तौ द्विजर्षभौ ॥ २१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रदानयोग्याः माल्ययोग्याः । मध्यम पदलोपिसमासः । माल्यार्थसाधनानि पृथक्पृथगिति, देवायतनचैत्ययोरिति शेषः । ब्राह्मणैर्देवताः पूजनीया इत्यर्थः | ॥ १८ ॥ दीर्घासिबद्धा इति । दीर्घासिबद्धाः बद्धदीर्घासयः । “ प्रहरणार्थेभ्यः परे निष्टासप्तम्यौ भवतः " इति निष्ठायाः परनिपातः । महानुदयो रामा भिषेकरूपाभ्युद्यो यस्मिन् तं महोदयम् ॥ १९ ॥ एवमिति । विप्रौ वसिष्ठवामदेवौ । क्रियाः पुरोहितकर्त्तव्याः । तत्र राजगृहे । व्यादिश्य आज्ञाप्य । यच्छेषं दासीपरिजनाद्यानयनं तदपि पार्थिवाय राज्ञे निवेद्य चक्रतुः ॥ २० ॥ कृतमिति । अथ जगत्पतिं राजानमभिगम्य । यथोक्तवचनम् उक्तवचन
26
तालाबचराः तालैरवचरन्ति जीवन्तीति तालावचराः नर्तकगायकादयः । कक्ष्यां द्वारम् ॥ १७ ॥ देवायतनचैत्येषु देवगृहेषु चैत्येषु रथ्यावृक्षेषु च । सान्नभक्षाः अन्नभक्षैः सह वर्तन्त इति तथा अन्नमोदकहस्ता इति यावत् । माल्ययोग्याः माल्यप्रदानयोग्याः ॥ १८ ॥ दीर्घासिबद्धाः बद्धदीर्घासयः, मृष्टवाससः धौताम्बराः, महोदयम् महान श्रीरामाभिषेकरूपः उदयो यस्मिन्नित्यङ्गणविशेषणम् ॥ १९ ॥ एवमिति । विप्रो वसिष्ठवामदेवौ क्रियाः रामाभिषेकोपयोगीनि कार्याणि व्यादिश्य अधिकारिणामाज्ञाप्येत्यर्थः । शेषं यत् कार्यं विहितं तत्पार्थिवाय निवेद्य चक्रतुरिति सम्बन्धः ॥२०॥ कृतमिति । यथोक्तवचनमुक्तवचनमनतिक्रम्य प्रीतौ हर्षयुक्तो प्रीतिर्मनोगतानन्दः, हर्षः तज्जन्यो रोमाञ्चादिशरीर विकारः । तौ यथोक्तवचनम् उक्तवचनानतिक्रमेण सर्व कृतमित्यब्रूतामित्यन्वयः ॥ २१ ॥
For Private And Personal Use Only