________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥१८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हारान्। “करोपहारयोः पुंसि बलिः" इत्यमरः। ओषधयः त्रीहिमुद्रादयः । शुक्लमाल्यांश्चेति लिङ्गव्यत्यय आर्पः । पृथक्पृथक् पात्रगृहीते मधुसर्पिषी क्षौद्र घृते । अहतानि " ईषद्धीतं नवं श्वेतं सदृशं यन्त्रधारितम् । अहतं तद्विजानीयादैवे पित्र्ये च कर्मणि ॥" इत्युक्तजलप्रक्षालनादिगुणयुक्तानि । चामरव्यजने चामररूपव्यजने । शातकुम्भानां सौवर्णानाम्। हिरण्यशृङ्गं हिरण्यालंकृतशृङ्गम् । समयं सम्पूर्णावियवम् । उपस्थापयत प्रापयत । अग्न्यगारं अग्निहोत्र अहतानि च वासांसि रथं सर्वायुधान्यपि । चतुरङ्गबलं चैव गजं च शुभलक्षणम् ॥ ९ ॥ चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डरम् । शतं च शातकुम्भानां कुम्भानामनिवर्चसाम् ॥ १३ ॥ हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च । उपस्थापयत प्रातरम्यगारं महीपतेः ॥ ११ ॥ यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥ १२ ॥ अन्तः पुरस्य द्वाराणि सर्वस्य नगरस्य च । चन्दनस्रग्भिरन्यन्तां धूपैश्च प्राणहारिभिः || १३ || प्रशस्तमन्त्रं गुणवद्दधि क्षीरोपसेचनम् । द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ॥ १४ ॥ सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीय ताम् । घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः || १५ || सूर्येऽभ्युदितमात्रे वो भविता स्वस्तिवाचनम् । ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च । आवध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ॥ १६ ॥ गृहम् | अन्यत् गन्धपुष्पादिकम् । एष्टव्यं अपेक्षणीयम् ॥८-१२॥ अन्तःपुरेति । अन्तःपुरस्य राजगृहस्य सर्वस्य नगरस्य द्वाराणि सर्वाणि नगरद्वाराणी त्यर्थः । घ्राणहारिभिः प्राणद्वारा पुरुषाकर्षकैः॥ १३॥ प्रशस्तमिति । सहस्रमेव साहस्रम् । शतसाहस्रशब्दो परिमित वचनः। विषयसप्तमी । अलं पय्र्याप्तिं "अलं भूषण पर्याप्तिशक्तिवारणवाचकम् "इत्यमरः । शतसाहस्रविषये प्रकामं अत्यर्थ, पर्याप्तं प्राशस्त्यादिगुणविशिष्टं यदुनं भवेत्तत्सम्पाद्यतामित्यर्थः ॥ १४ ॥ सत्कृत्येति । द्विजमुख्यानां द्विजमुख्येभ्यः सत्कृत्य दीयताम् तदन्नमिति शेषः । पुष्कलाः संपूर्णाः ॥ १५ ॥ सूर्य इत्यादि । सूर्ये अभ्युदितमात्रे सूर्यो नूतनानि चामरव्यजने चमरवालनिर्मिते व्यजने । शातकुम्भानां सौवर्णानाम् । हिरण्यशृङ्गं सुवर्णालङ्कृतशृङ्गम् । समग्रमखण्डम् । उपस्थापयत प्रापयत ॥ ११ ॥ यच्चान्यदिति । एष्टव्यम् अपेक्षणीयम्। मङ्गलव्यमित्यर्थः ।। १२ ।। १३ ।। प्रशस्तमन्त्रं मृष्टान्नम् । शतसाहब शब्दोऽपरिमितवाचि विषयः। तत् अलं पर्याप्तम् । प्रकाम मभिमतं भवेत् । दधिक्षीरोपसेचनं दधिक्षीरसंस्कारवत गुणवत् व्यञ्जनोपेतम् ॥ १४-१६ ॥
For Private And Personal Use Only
टी.अ. क
स
||१८||