________________
www.kabatirth.org
Acharya Shri Kailassarsur Gyarmandir
Shri Mahavir Jain Aradhana Kendra
शिरसि बद्धानीत्यर्थः । अञ्जलिरूपाणि पद्मानि अनलिपद्मानि, अञ्जलीनां पद्ममुकुलाकारत्वातत्यपद्मशब्दः पद्ममुकुलपरः प्रतिगृह्य वीक्षणवचनप्रत्य। अलिभिर्यथायोगमञ्जलीनां प्रतिग्रहः ॥ १॥ अहो इति । अहोस्मीति सन्धिरार्षः ॥२॥ इतीति । राजा दशरथः। इति पूक्तिरीत्या। तान् प्रार्थनापरान् । ब्राह्मणान् । अभ्यर्च्य मधुरवचनैः सम्मान्य । तेषामेवोपशृण्वतां तेषु उपशृण्वत्सु सत्स्वेव वसिष्टुं वामदेवं चेदमत्रवीत् ॥३॥ अभिषेकविषयनिरतिशया । दरेण तदुचितकालं प्रशंसत्ति-चैत्र इति । चैत्रः यथेतरेभ्यः प्रधानभूतो रामः तथा मासान्तरेभ्योऽयं मासः। श्रीमान् यथा सर्वसुखावहत्वादामः सपेषां ।
अहोस्मि परमप्रीतः प्रभावश्चातुलोमम । यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥२॥ इति प्रत्यर्च्य तान् राजा ब्राह्मणानिदमब्रवीत् । वसिष्टं वामदेवं च तेषामेवोपशृण्वताम् ॥ ३॥ चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः। यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥४॥राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् । शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः । वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ॥५॥ अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् । तदद्य भगवन सर्वमाज्ञापयितुमईपि॥६॥तच्छुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः। आदिदेशाग्रतो राज्ञःस्थितान
युक्तान् कृताञ्जलीन् ॥७॥ सुवर्णादीनि रत्नानि बलीन सर्वोषधीरपि । शुक्लमाल्यांश्च लाजांश्च पृथक चमधुसर्पिषी॥८॥ राजा तथा सर्वसुखकरत्वादसौ सर्वमासाना राजा । अयं मासः अभिषेकमनोरथसमय एव सन्निहितः । अयं मासः अवतारहेतुरेखाभिषेकहेतुः। पुण्यः रमणीयः पुण्यवर्द्धनो वा । पुष्पितकाननः अस्मत्प्रयत्वालंकृतनगरवलक्षण्येन स्वयमेवालंकृतवनः । यदा रामस्य कनककिरीटधारणसमये स्वयं कुसुम मुकुटधारी वनप्रदेशो जातः ॥४॥ राज्ञ इति । वसिष्ठशब्दो वामदेवस्याप्युपलक्षणपरः, वसिष्टं वामदेवमिति द्वयोः प्रस्तुतत्वात् ‘एवं व्यादिश्य विप्रो तौM इत्युपविक्ष्यमाणत्वाच्च प्राधान्यादसिष्टस्योपादानम् । जनघोषः चिरप्रार्थितरामाभिषेकविषयोस्मन्मनोरथः फलित इत्येवंरूपः॥५॥ अभिषेका यति । सपरिच्छदं सोपकरणम् ॥६॥ तदिति । युक्तान राजकार्यनियुक्तान सुमन्त्रादीन् । अधिकारिण इतियावत् ॥ ७॥ सुवर्णादीनीति । बलीन उप इतीति । प्रत्यर्च्य प्रत्याभिनुद्य तेषां समागतानां नृपाणामुपशृण्वतां तेषूपशृण्वत्सु सत्सु । वसिष्ठं वामदेवं च ब्राह्मणांश्च इदं वक्ष्यमाणं वाक्यमब्रवीत् ॥३॥ ४ ॥ राज्ञ इति । जनघोषः चिरकालपार्थितो रामाभिषेकविषयोऽस्मन्मनोरथः फलित इत्येवंरूपो महानभूत् । वसिष्ठमिति वामदेवस्याप्पुपलक्षणम् ॥ ५॥ सपरिच्छदं । सोपकरणम् ॥ ६॥ तदिति । युक्तान अधिकारिण इति यावत् ॥ ७ ॥ सुवर्णेनि । बलीन पूजाइम्याणि । पृथक च मधुसर्पिषी परम्परममिलिने क्षौद्रवृते । अहतानि
For Private And Personal Use Only