________________
Shri Mahavir Jain Aradhana Kendra
बा.ग.भ.
॥१७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हृदयं व्यक्तमनाविष्कुर्वन्त्यः । वृद्धाः करणपाटवरहिताः, अत्यलस्तया सर्वत्रानादरं कुर्वन्त्यः । तरुण्यः यौवनमदान्धतया विवेकशून्याः । सायंप्रात रित्युपलक्षणम्, त्रिसन्ध्यमित्यर्थः । तेन मङ्गलाशासनकालनियमोक्तिः । समाहिताः सावधानाः । अनेन रामगुणगृहीततया स्वारसिकप्रेमकत्वेन समनस्कत्वमुक्तम् । सर्वान् देवानिति प्रेमकलुषिततया न्यूनाधिकविभागमन्तरेण लौकिकवैदिकविभागमन्तरेण च नमस्यन्तीति रामरक्ष्या नेव देवान् रामरक्षकान् मन्यन्त इति प्रेमान्ध्यकाष्ठा दर्शिता । रामस्यायें रामस्य बलारोग्यादिप्रयोजनसिद्धचैव स्वप्रयोजनं नान्तरीयकमिति तेषामायाचितं देव त्वत्प्रसादात्समृयताम् ॥ ५५ ॥ राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् । पश्यामो यौव राज्यस्थं तव राजोत्तमात्मजम् ॥ ५६ ॥ तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम् । हिताय नः क्षिप्रमुदारजुष्टं मुदाभिषेक्तुं वरद त्वमर्हसि ॥५७॥ इत्यार्षे श्रीरामा० वा० आ० अयोध्याकाण्डे द्वितीयः सर्गः ॥ २ ॥ तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः । प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥ १ ॥
तस्यैव प्रयोजनमुद्दिश्य । यशस्विनः देवतान्तरनमस्कारस्य रामप्रयोजन पर्यवसितत्वात् रामप्रेमपारवश्येन कृतत्वाच्च स्वरूपविरुद्धदेवतान्तर | भजनरूपमयशो नास्तीत्यर्थः ॥ ५४ ॥ तेषामिति । आयाचितं रामाभिषेकरूपाभिमतार्थप्रार्थनम् । समृद्धयतां सफलं भवतु ॥ ५५ ॥ राममिति इन्दीवरश्याममिति समुदायशोभोक्ता । सर्वशत्रुनिबर्हणमिति स्वसौन्दर्यातिशयदर्शनमग्र चित्तत्वरूपकामादिशत्रुनिबर्हणमित्यर्थः । पश्यामः द्रक्ष्यामः । "वर्तमानसामीप्ये वर्तमानवद्वा " इति भविष्यदर्थे लट् ॥ ५६ ॥ तमिति । देवेति सम्बुद्धिः । देवदेवः विष्णुः तत्सदृशमिति वा । निविष्टं दत्तावधान मित्यर्थः । उदारजुष्टं औदार्ययुक्तम् । भावप्रधानो निर्देशः । उदारैर्जुष्टं सेवितमिति वा ॥ ५७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्ब राख्याने अयोध्याकाण्डव्याख्याने द्वितीयः सर्गः ॥ २ ॥ एवं निश्चिताभिषेकस्य सम्भारसम्भरणप्रवृत्तिस्तृतीये - तेषामिति । प्रगृहीतानि प्रकर्षेण गृहीतानि तेषामिति । आयाचितं प्रार्थनाम् ॥ ५५ ॥ राममिति । पश्यामः समृद्ध्यतां सफलं भवतु ॥ ५६ ॥ तमिति । देवदेवोपमं विष्णुतुल्यम् । हिते श्रेयसि निविष्टम् अभिनिवेशवन्तम्, हिततत्परमित्यर्थः । उदारैर्गुणैर्जुष्टं युक्तम् ॥ ५७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्ड व्याख्यायां द्वितीयः सर्गः ॥ २ ॥ तेषामिति । अञ्जलिपद्मानि पद्ममुकुलाकारानञ्जलीन ॥ १ ॥ २ ॥
For Private And Personal Use Only
टी.अ.का. स० ३
॥ १७॥