________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्शिनी। दूरकालभाव्यनर्थदर्शिनी । “दूरानर्थस्य संदशी दीर्घदृष्टिः प्रकीर्तितः" इति ॥१०॥तस्या इति । तस्याः तादृशधर्मयुक्तायाः॥११॥ अपापदर्शनमिति । किंतु पश्यसि कारणम् किंफलं पश्यसीत्यर्थः । फलं हि प्रयोजकतया कारणम् । न किमपीत्यर्थः ॥ १२ ॥ लुब्धाया इति । तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम् । प्रस्थाप्य वनवासाय कथं पापे न शोचसि ॥ ११ ॥ अपापदर्शमं । शूरं कृतात्मानं यशस्विनम् । प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् ॥१२॥ लुग्धाया विदितो मन्ये न तेऽहं राघवं प्रति । तथा ह्यनर्थो राज्यार्थं त्वयाऽऽनीतो महानयम् ॥ १३॥ अहं हि पुरुषव्याघ्रावपश्यं रामलक्ष्मणौ । केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे ॥१४॥तं हि नित्यं महाराजो बलवन्तं महाबलः। अपाश्रितोऽभूद्धर्मात्मा
मेरुमरुवनं यथा ॥१५॥ सोऽहं कथमिमं भारं महाधुर्यसमुद्धृतम् । दम्यो धुरमिवासाद्य वहेयं केन चौजसा ॥१६॥ अहं राघवं प्रति यथा यादृशप्रकारयुक्तः तथा लुब्धायास्ते लुब्धया त्वया न विदित इति मन्ये । अविदितत्वे हेतुमाह तथा हीति । राज्यार्थ मम राज्यार्थम् । महानयमनर्थस्त्वया आनीतो हि आनीतः खलु सम्पादितः खलु ॥ १३ ॥ राघवंप्रत्यहं यादृश इत्युक्तं विवृणोति-अहमिति । अपश्यन् हि अपश्यन्नेव । “हि हेताववधारणे" इत्यमरः । केन शक्तिप्रभावेन शक्त्पतिशयेन । भ्रातृसम्पत्तिरेख मम शत्यतिशय इति भावः ॥१४॥ न केवलं ममैव रामापेक्षा, पितुरपीत्याह-तमिति । मेरुमेरुवनं यया मेरुननितमेरुवनस्य तद्रक्षकत्वं परेराक्रमितुमशक्यत्वसम्पादनेन ॥ १५ ॥ केन शक्तिप्रभावेनेत्युक्तमर्थ सदृष्टान्तमाह-स इति । अहं बालः । इमं प्रबुद्धपितृधृतम् । भार राज्यभारम् । महाधुर्यों महावलीवर्दः। धुरं वह । तीति धुर्यः “धुरो यड्ढको" इति यत्प्रत्ययः । तेन समुड़तं धुरं भारम् । पुंस्त्वमार्षम् । दम्यः तरुणवत्स इव । “तर्णकः स्मर्यते वत्सो दम्यो । वत्सतरश्च सः" इति हलायुधः । “दम्यवत्सतरौ समौ” इत्यमरश्च । केनौजसा केनावष्टम्भेन । "ओजोऽवष्टम्भबलयोः" इति वैजयन्ती । कथं केन । तस्या इति । तस्याः तादृशधर्मयुक्तायाः ॥ ११ ॥ १२ ॥ लुब्धाया इति । अहं राघवं प्रति यथा यादृशमकारयुक्तः, तथा लुब्धायास्ते लुब्धया त्वया न विदित। इति मन्ये । अविदितत्वे हेतुः तथा ह्यनर्थ इति । राज्याय मम राज्यार्थम् । महानयमनर्यस्त्वया आनीतो हि आनीतः खलु॥१३॥१४॥ दशरथस्यापि रामालम्बनेनैव राज्यपरिपालनशक्तिरित्याह तमिति । मेरुः मेरुवनम् यथा मेरुजनितमेरुवनस्य तद्रक्षकत्वं परैराक्रमितुमशक्यत्वसम्पादनेन ॥ १५॥ सोहमिति । महाधुर्य
For Private And Personal Use Only