SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandie बा.रा.भू. ॥२३१५ स०७३ श्रुत्वेति। वृत्तम् अतीतम्, मृतमिति यावत् ॥१॥ किं न्विति । कार्य प्रयोजनम् । इतस्य भाग्यहीनस्य॥२॥ दुःख इति । दुःखे दुःखकरणात् व्रणक्षाराटी .अ.कां. धानप्सादृश्यम् ॥ ३॥ कुलस्येति । कालरात्रिः प्रलयकालोत्थितसर्वसंहारशक्तिः । उपगूह्य आलिङ्गय ॥४-६ ॥ विनाशित इति । महाराजः [कैकेय्याप्येवमुक्तस्तु भरतो राघवानुजः । कर्णो कराभ्यां प्रच्छाद्य पपात धरणीतले ॥] श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ । भरतो दुःखसन्तप्त इदं वचनमब्रवीत् ॥ १ ॥ किंनु कार्य हतस्येह मम राज्येन शोचतः। विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च ॥२॥ दुःखे मे दुःखमकरोत्रणे क्षारमिवादधाः । राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् ॥३॥ कुलस्य त्वमभावाय कालरात्रिरिवागता । अङ्गारमुपगृह्य स्म पिता मे नावबुद्धवान् ॥४॥ मृत्युमापादितो राजा त्वया मे पापदार्शनि । सुखं परिहृतं मोहात् कुलेऽस्मिन् कुल पांसिनि ॥५॥ त्वां प्राप्य हि पिता मेऽद्य सत्यसन्धो महायशाः। तीवदुःखाभिसन्तप्तो वृत्तो दशरथो नृपः ॥६॥ विनाशिती महाराजः पिता मे धर्मवत्सलः। कस्मात् प्रवाजितो रामः कस्मादेव वनं गतः ॥७॥ कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते । दुष्करं यदि जवितां प्राप्य त्वां जननीं मम ॥ ८॥ ननु त्वायोपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम्। वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्त्तते ॥९॥ तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी। त्वयि धर्म समास्थाय भगिन्यामिव वर्त्तते ॥ १०॥ कस्माद्विनाशितः, रामः कस्मात्प्रवाजित इति सम्बन्धः । त्वया सर्व निष्फलमेव कृतमिति भावः ॥७॥ कौसल्यति । यदि जीवेतां तदा दुष्करं जीवेता। मिति सम्बन्धः॥ ८॥ ननु विति । आर्यः ज्येष्ठः । वृत्ति शुश्रूषाम् । वत्तते करोतीत्यर्थः। मातरि वर्तते मातरि शुश्रूषते ॥ ९॥ तथेति । दीर्घ श्रुत्वेति । वृत्तं मृतमित्यर्थः॥१॥२॥ राजानं प्रेतभावस्थं रामं च तापसं कृत्वा मे दुःखमकरोः अतः दुःखे दुःखकरे व्रणे क्षारमादधा इव ॥३॥ कुलस्येति । ।२३१॥ कालरात्रिः प्रलयकालोत्थितसर्वसंहारशक्तिः ॥ ४॥ ५॥ त्वामिति । वृत्तः मृतः॥ ६॥ विनाशित इति । महाराजः कस्माद्विनाशितः कस्माद्रामः प्रवाजित इति । सम्बन्धः । त्वयैतत्सर्व निष्फलमेव कृतमिति भावः ॥७॥८॥ नन्विति । आर्यः रामः॥९॥ दीर्घदर्शिनी दूरकालभाग्यनर्थदर्शिनीत्यर्थः ॥१०॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy