________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
॥ मया तुपाय पिता त
पुत्रशोकपारविधं कृतम् ॥
श्यन प्रिय पु समास्थाय पिता रामस्यैवाभिषेचन
न ब्राह्मणेत्यादि । रामः परदारान् चक्षुामपि न पश्यति । एवं सति न स्पृशतीत्यत्र किंवक्तव्यमिति भावः ॥ १८॥ मयेति । ते राज्यं रामस्या विवासनं च पिता याचितः पूर्वदत्तवरद्वये विषयत्वेन याचित इत्यर्थः ॥१९॥ स इति । स्ववृत्तिं स्वप्रतिज्ञारूपां वृत्तिम् ॥५०॥ तमिति । नब्राह्मणधनं किञ्चिद्धृतं रामेण कस्यचित् । कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः।न रामः परदारांश्च चक्षुामपि पश्यति ॥ ४८॥ मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् । याचितस्ते पिता राज्यं रामस्य च विवासनम् ॥४९॥ स स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत् । रामश्च सहसौमित्रिः प्रेषितः सीतया सह ॥५०॥ तमपश्यन् प्रियं पुत्रं महीपालो महायशाः। पुत्रशोकपरियूनः पञ्चत्वमुपपेदिवान् ॥ ५ ॥ त्वया त्विदानी धर्मज्ञ राजत्वमवलम्ब्यताम् । त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम् ॥५२॥ मा शोकमा च सन्तापं धैर्यमाश्रय पुत्रक। त्वदधीना हि नगरी राज्यं चैतदनामयम् ॥५३॥ तत्पुत्र शीघ्र विधिना विधिज्ञैर्वसिष्ठ मुख्यैः सहितो द्विजेन्द्रैः । सङ्काल्य राजानमदीनसत्त्वमात्मानमुामभिषेचयस्व ॥ ५४॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥७२॥ पुत्रशोकपरियूनः पुत्रशोकेन परियूनः तप्तः विलपन्नित्यर्थोऽवा । “दिवोऽविजिगीषायाम्" इतिनिष्ठानत्वम् ॥५१॥ त्वयेति । धर्मज्ञ राजनीतिज्ञ ! M॥५२॥ मा शोकमिति । अनामयं निरुपद्रवम् ॥५३॥ तदिति । सङ्काल्य संस्कृत्य ॥५४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता सम्बराख्याने अयोध्याकाण्डव्याख्याने द्विसप्ततितमः सर्गः ।। ७२॥
मया विति । ते राज्यं रामस्य विवासनं च पिता याचित इति सम्बन्धः ॥ ४९ ॥ स्ववृत्ति स्वस्य प्रतिज्ञारूपम् ॥५॥ पुत्रेति । पुत्रशोकपरियूनः पुत्रशोकेन विलपनित्यर्थः ।। ५१ ॥ धर्मज्ञ राजनीतिज्ञ ॥ ५२ ॥ अनामयं निरुपद्रवम् ॥ ५३ ॥ सङ्काल्य संस्कृत्य ॥ ५४ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्व दीपिकाख्यायामयोध्याकाण्डव्याख्यायां द्विसप्ततितमः सर्गः ।। ७२ ।।
For Private And Personal Use Only