________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२३०॥
बा.रा.भू. मुपचक्रम इत्युपक्रमस्य वक्ष्यमाणपरत्वात् 'याचितस्ते पिता राज्यं रामस्य च विवासनम्' इति वक्ष्यमाणवाक्यार्थाभिप्रायेण यौगपद्यम् ॥ ४१ ॥ ७ स हीति । दण्डकान् महावनमिति 'वेदाः प्रमाणम्' इतिवन्निर्देशः ॥ ४२ ॥ तदिति । चारित्रशङ्कया चारित्रं किमभूदिति शङ्कया । वंशस्य माहात्म्यात् स हि राजसुतः पुत्र चीरवासा महावनम् । दण्डकान् सह वैदेह्या लक्ष्मणानुचरो गतः ॥४२॥ तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया । स्वस्य वंशस्य माहात्म्यात् प्रष्टुं समुपचक्रमे ॥ ४३ ॥ कच्चिन्न ब्राह्मणधनं हृतं रामेण कस्य चित् । कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ॥ ४४ ॥ कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते । कस्मात्स ausarरण्ये भ्रणव विवासितः ॥ ४५ ॥ अथास्य चपला माता तत् स्वकर्म यथातथम् । तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे ॥ ४६ ॥ एवमुक्ता तु कैकेयी भरतेन महात्मना । उवाच वचनं हृष्टा मूढा पण्डितमानिनी ॥४७॥ असदाचारवैमुख्यपूर्वक सदाचारनिरतत्वं वंशस्य माहात्म्यम् ॥ ४३ ॥ कच्चिदिति । ब्राह्मणधनमित्यत्राविभक्तिको निर्देशः । कस्यचिद्ब्राह्मणस्येत्यर्थः । यद्वा कस्यचित् कस्माच्चिद्धेतोरित्यर्थः ॥ ४४ ॥ कच्चिदिति । भ्रूणः श्रुताध्ययनसम्पन्नः “ अनूचानो गुणैर्युक्तो व्रतस्वाध्यायवाञ्छुचिः । भ्रूण इत्युच्यते सद्भिस्त्वेष यो विजितेन्द्रियः ॥” इति स्मृतेः ॥४५॥ अथेति । यथातथं यथावृत्तम् । निपातनात्साधुः । स्त्रीस्वभावेन चापलेनेत्यर्थः । व्याहर्तु मुपचक्रमे वक्तुं व्यवसितवतीत्यर्थः । अथास्येति श्लोको मुनेः खेदाभिनयः । एवमिति श्लोकः क्रमिक इति केचित् ॥ ४६ ॥ रामानु० - भ्रूणहेव विवासित इत्येतच्छ्लोकानन्तरम् एवमुक्तेतिश्लोकश्चेत् सुसङ्गतं भवति । मध्ये अथास्येति श्लोको वर्तते, स्थितस्य गतिश्चिन्तनीयेति न्यायेनास्य व्याख्या क्रियते। व्याहर्तुमुपचक्रमे वक्तुं व्यवसितवतीत्यर्थः॥४६॥ एवमिति । अयं श्लोकः पूर्वानुवादार्थः ॥ ४७ ॥
For Private And Personal Use Only
टी.अ.कां.
स० ७२
राजमरणकथनसमकालमेव आख्यातुमुपचक्रम इति सम्बन्धः ॥ ४१ ॥ ४२ ॥ चारित्रशङ्कया चरित्रं किमभूदिति शङ्कया । वंशस्य माहात्म्यात् । वंशस्य माहात्म्यं नाम असदाचारवैमुख्यपूर्वकसदाचारनिरतत्वम् ॥ ४३ ॥ ब्राह्मणधनं कस्य चित् कस्माच्चिद्धेतोर्न हृतं कश्चित् ॥ ४४ ॥ भ्रूणहा नाम एकशाखाध्यायी ॥ २३० ॥ श्रोत्रियः सर्वशाखाध्यायी भ्रूण: स्य हन्ता ॥ ४५-४८ ॥