________________
Shri Mahavir Jain Aradhana Kendra
www kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandie
पश्चिममिति । आत्मनःसन्देशं मद्विषयसन्देशम् ॥ ३५॥ एवं पृष्टवन्तं भरतं प्रति त्वां राजा न स्मृतवान् किंतु राममेव स्मरन् स्वर्गमगादिति पितृ । विषयोहनिवर्चनाभिप्रायेणोत्तरमाह-रामेत्यादिना ॥ ३६ ॥ इमामित्यादिश्लोकद्वयमेकान्वयम् । सिद्धार्थाः कृतार्थाः । पुनरागतं द्रक्ष्यन्तीति इमां | पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः। तस्य पादौ ग्रहीष्यामि सहीदानी गतिर्मम ॥३३॥ धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः। आर्यः किमब्रवीद्राजा पिता मे सत्यविक्रमः॥ ३४॥ [गुरुरेकः प्रजानां तु पिता मे सत्य विक्रमः।] पश्चिमं साधु सन्देशमिच्छामि श्रोतुमात्मनः। इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् ॥३५॥ रामेति राजा विलपन हा सीते लक्ष्मणेति च ।समहात्मा परलोकंगतोगतिमतां वरः॥३६॥ इमां तु पश्चिमां वाचं व्याजहार पिता तव । कालधर्मपरिक्षिप्तः पाशैरिव महागजः ॥ ३७॥ सिद्धार्थास्ते नरा राममागतं सीतया सह । लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् ॥ ३८॥ तच्छुत्वा विषसादेव द्वितीयाप्रियशंसनात् । विषण्णवदनो भूत्वा भूयः । पप्रच्छ मातरम् ॥ ३९॥ व चेदानीं स धर्मात्मा कौसल्यानन्दवर्द्धनः । लक्ष्मणेन सह भ्रात्रा सीतया च समं
गतः ॥ ४० ॥ तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे । मातास्य युगपदाक्यं विप्रियं प्रियशङ्कया ॥४१॥ वाचं व्याजहारेति सम्बन्धः॥३७॥ ३८॥ तदिति। द्वितीयाप्रियशंसनात् राजमरणापेक्षया रामस्य देशान्तरगमनरूपाप्रियस्य द्वितीयत्वम् ॥३९॥४०॥ तथेति । यथातथमिति सम्यकपाठः । यथाचायमितिपाठे-अयं वृत्तान्तः यथा तथाख्यातुमित्यन्वयः। विप्रियं रामविवासनप्रतिपादकम् । प्रियशङ्ख्या एतच्छ्वणेन भरतस्य प्रियं भविष्यतीति वितर्केण "शङ्कावितर्कभययोः" इति वेजयन्ती । युगपत राजमरणकथनसमकालमेव । यद्वा युगपदाख्यातु धर्म जानतः आर्यस्य श्रेष्ठस्य विवेकिनः पुरुषस्येत्यर्थः । ज्येष्ठनाता पिता भवति अतस्तस्य पादौ ग्रहीष्यामीति । कुतः स हि गतिः ममेति सम्बन्धः ॥३३॥३४॥ आत्ममः सन्देशं मृपमरणसमये नृपेण मद्विषये वार्तामित्यर्थः ॥ ३५ ॥ रामादीन स्मरनव परं गत इत्याह-रामेति ॥ ३६॥ इमामित्यादिश्लोकद्वयमेकं वाक्यम् । कालधर्मपरिक्षिप्तः मृत्युना व्याप्तः । सिद्धार्था नराः आगतं रामं द्रक्ष्यन्तीति इमां वाचं व्याजहारेतिसम्बन्धः ॥३७ ॥ २८ ॥ तच्छत्वेति । द्वितीयाप्रियशंसनात् राज मरणापेक्षया रामवनवासरूपापियस्य द्वितीयत्वम् ॥३९॥४०॥ विभियं रामविवासनप्रतिपादकं प्रियशङ्कया एतच्छ्रवणेन भरतस्प प्रियं भविष्यतीति तर्केण युगपत्
-VAADIMANDAR
--
-
For Private And Personal Use Only