SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥२२९॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin भरतशोकनिवर्त्तनार्थमित्युक्तवती । सदसि सम्मताः सभ्या इत्यर्थः । दानयज्ञौ अधिक्रियेते अनयेति दानयज्ञाधिकारा । तत्र हेतुः शीलेति । शीखं सद्वृत्तं श्रुतिवचो वेदवाक्यं ते अनुगच्छतीति तदनुगा तदनुसारिणी बुद्धिः अध्यवसायः । अर्कस्य प्रभा मन्दिर इव सूर्यप्रभा यथा स्वस्थाने निश्चला भवति दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा । बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥ २५ ॥ स रुदित्वा चिरं कालं भूमौ विपरिवृत्य च । जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः ॥ २६ ॥ अभिषेक्ष्यति राम नु राजा यज्ञं नु यक्ष्यते । इत्यहं कृतसङ्कल्पो हृष्टो यात्रामयासिषम् ॥ २७ ॥ तदिदं ह्यन्यथाभूतं व्यवदीर्ण मनो मम । पितरं यो न पश्यामि नित्यं प्रियहितेरतम् ॥ २८ ॥ अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते । धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् ॥ २९ ॥ न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान्। उपजिद्धि मां मूर्ध्नि तातः सन्नम्य सत्वरम् ॥३०॥ क्व स पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणः । येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति ॥ ३१ ॥ यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः । तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्टकर्मणः ॥३२॥ तथा ते बुद्धिर्निश्वला भातीत्यर्थः । मन्दर इति पाठे - अर्कस्य प्रभा मन्दर इवेत्युक्तिरत्युन्नतमन्दरपर्वते अर्क प्रभायाः पर्वतान्तरापेक्षया चिरकालावस्था नातू ( पाठभेदः । मन्दर इतिपाठे मन्दरशिखरे स्थितस्यार्कस्य प्रभेवाधिकप्रकाशवतीत्यर्थः । उत्तरायणे हि मन्दरगतस्य सूर्यस्य प्रभाधिकं प्रकाशत इति प्रसिद्धम् । ) ।। २४-२६ ॥ अभिषेक्ष्यतीति । यज्ञं यक्ष्यत इति यज्ञं करिष्यत इत्यर्थः । यात्रामयासिषं यात्रामकार्षमित्यर्थः ॥ २७ ॥ तदिति । व्यवदीर्ण भिन्नम् ॥ २८-३० ॥ केति । परिमार्जति परिमार्ष्टि । माम् आगतमिति शेषः । क्व स पाणिः, गत इतिशेषः ॥ ३१-३४ ॥ अर्कस्य प्रभा मन्दर इवेत्युक्तिः अत्युन्नतमन्दरपर्वते अर्कप्रमायाः पर्वतान्तरापेक्षया चिरकालावस्थानात् ॥ २५ ॥ २६ ॥ यक्ष्यते यागं करिष्यतीति । यात्रामया सिषं मात्रामकार्षमित्यर्थः ॥ २७-३० ॥ परिमार्जति परिमार्ष्टि ।। ३१ ।। ३२ ।। स० [अर्कप्रभा यथा मन्दिरे समुद्रे सर्वदा व्याप्ता तथा तव बुद्धिरपि लौकिकालौकिकविषये व्याप्तेत्यर्थः । यद्वा मन्दिरे गृहे । अर्कस्य स्पटिकस्य प्रभा यथा तथा तव बुद्धिरपि स्वच्छा " अर्कोऽर्कपर्णे स्फटिके । मन्दिरं नगरेऽगारे मन्दिरो मकरालये " इति विश्वः ।। २५ ।। For Private And Personal Use Only टी.अ.कां. स०७२ २२ ॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy