________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
कृत्वा । (पाठभेदः । सर्वतीर्थे सर्वतीर्थाख्ये ग्राम) उत्तानिकाम् उन्नतजलत्वेन तदाख्याम् । अन्याः नदीः स्वल्पजला पार्वतीयः पर्वतदेशोत्पन्नः तुरङ्गमः ॥ रथाश्वैः तीवेत्यनुषङ्गः। हस्लिपृष्ठवदुन्नतत्वात् हस्तिपृष्ठकाख्यं ग्राममासाद्य कुटिका नदीमत्यवर्तत हस्तिएपङ्गसमीपे कुटिकामतरदित्यर्थः ।।
हस्तिप्टष्ठकमासाद्य कुटिकामत्यवर्तत। ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् ॥ १५ ॥ एकसाले स्थाणु मती विनते गोमती नदीम् । [व्यपायाद्राघवस्तूण ती शोणां महानदीम् ।] कलिङ्गनगरे चापि प्राप्य सालवनं तदा । भरतः क्षिप्रमागच्छत् सुपरिश्रान्तवाहनः ॥ १६ ॥ वनं च समतीत्याशु शर्वर्यामरुणोदये । अयोध्या मनुना राज्ञा निर्मितां संददर्श ह ॥ १७॥ तां पुरी पुरुषव्याघ्रः सप्तरात्रोषितः पथि। अयोध्यामग्रतो दृष्ट्वा सारथिं वाक्यमब्रवीत् ॥ १८॥ एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी। अयोध्या दृश्यते दूरात् सारथे पाण्डु,
मृत्तिका ॥ १९॥ यज्वभिर्गुणसम्पन्नैाह्मणैर्वेदपारगैः। भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता ॥२०॥ लौहित्ये लोहितमृत्त्वाल्लौहित्यनानि नगरे । कपीवती बहुकपिमत्त्वात्तत्रानी नदीम् । “ अन्येषामपि दृश्यते" इति दीर्घः ॥१४॥१५॥ एकसाल इति। एकसाले एकसालादूरभवत्वादेकसालाख्ये ग्रामे । स्थाणुमती सन्ततजलप्रवाहेण स्थाणुभूतवृक्षत्वात् स्थाणुमती नाम नदीम् । निम्रप्रदेशत्वात् विन ताख्ये नगरे बहुजलवत्त्वेन गोमत्याख्या नदी च ततार । भरतः सुपरिश्रान्तवाहनः सन् कलिङ्गनगरसमीपस्थं सालवनं सर्जकवनं प्राप्य विश्रमार्थ गत्वा ततस्तदा स्वल्पकाल एवागच्छत् ॥ १६॥ वनमिति । सालवनं च शामाशु समतीत्य अरुणोदयेऽयोध्यां संददर्श ॥ १७॥ तामिति । पथि सप्तरात्रोषितः अष्टमदिवसे त्वरातिशयेन राबावपि गत्वा अरुणोदयसमये अयोध्यां ददर्श । दृष्ट्वा सारथिमब्रवीच ॥१८॥ एषेत्यादिश्वोकद्वयमेकान्वयम् । पाण्डुमृत्तिका गोमयानुलेपनाद्याचरणाभावाच्छेतमृत्तिका । एपायोध्या नातिप्रतीता मे दृश्यते नातिसन्तुष्टा दृश्यते। "सुप्सुपा" इति समासः। "प्रतीतो हृषिते ख्याते ज्ञाते प्रत्ययिते बुधे" इतिवैजयन्ती । यज्वभिः विधिनेष्टवद्भिः। गुणसम्पन्नःशमदमादिगुणसमृ? भूयिष्ठं भृशम् । ऋद्धः धनिकैः॥१९॥२०॥ जनाः सगजाः समागताः इत्यवगम्यते । स भरतः । लौहित्ये लोहिताख्यनगरे कपीवती कपीवताख्यनदीम् ॥ १४ ॥१५॥ एकसाले प्रामे । स्थाणुमती नदीम् । विनते विनतारुयनगरे ॥ १६-१८ ॥ एषेत्यादिश्लोकद्वयम् । नातिप्रतीता नातिहापता: "प्रतीतो हषिते ख्याते" इति वैजयन्ती । पाण्डमृत्तिका सुधाधवलित
.
For Private And Personal Use Only