________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
१
शन्वर्थसंज्ञा नदी वीर्वा तस्या आग्नेय्यां दिशि भवमानेयम् । शल्यं हृदयशल्यं दुःखं कर्त्तयति छेदयतीति शल्यकर्त्तनं नाम नगरं प्रेक्षमाणः सन् अत्ययात् । सत्यसन्धः शुचिरित्याभ्यां तत्रत्यजनेभ्य ईतिवारणं प्रतिज्ञाय तथैव कृतवानित्युच्यते । (पाठभेदः । भीतिवारणं प्रतिज्ञाय ) चैत्ररथं ।
सरस्वती च गङ्गां च युग्मेन प्रत्यपद्यत । उत्तरं वीरमत्स्यानां भारुण्डं प्राविशदनम् ॥५॥ वेगिनीं च कुलिङ्गाख्या हादिनी पर्वतावृताम् । यमुना प्राप्य सन्तीर्णो बलमाश्वासयत्तदा ॥६॥शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः। तत्र स्नात्वा च पीत्वाच प्रायादादाय चोदकम् ॥ ७॥ राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् । भद्रो
भद्रेण यानेन मारुतः खमिवात्ययात्॥८॥ चेत्ररथतुल्यत्वात्तदाख्यं वनं प्रति उद्दिश्य महाशैलानत्ययात् तद्दर्शनकुतूहलेन महापर्वतानत्यगादित्यर्थः ॥३॥४॥ सरस्वतीमिति । सरस्वती तदाख्या
नदीम् । गङ्गां गङ्गाख्या काञ्चिन्नदी पश्चिमसमुद्रगामिनी गङ्गास्रोतोभेदं वा। युग्मेन सङ्गमेन प्रत्यपद्यत ययो । यद्वा युग्मेन द्वन्द्वतया पार्श्वद्वये प्रवह पन्तीमिति शेषः । वीरमत्स्यानां वीरमत्स्याख्यदेशानाम् । उत्तरं भारुण्डं भारुण्डाख्यं वनं प्राविशत् ॥५॥ रामानु०-सरस्वतीमिति । गङ्गां सुचक्षुश्चैव सीता चा
सिन्धुपैव महानदी । तिम्रस्त्वेता दिशं जग्मुः प्रतीची च शुभोदकाः ॥' इति वालकाण्डोक्तप्रकारेण गङ्गाभेदः सिन्धुरुच्यते । यमुनातरणानन्तरं भागीरथीतरणस्य वक्ष्यमाणत्वात् । युग्मेन. सङ्गमेन प्रतिपद्य वीरमत्स्यानामुत्तरप्रदेशान् भारुण्डवनं च प्राविशदिति सम्बन्धः । उत्तरं वीरमत्स्यानामितिपाठे-उत्तरमित्येतत् भारुण्डवनस्य विशेषणम् ॥५॥वेगिनीमिति । वेगिनी वेगयुक्ताम् । द्वादिनी सन्तोषकारिणीम् । पर्वतैरावृतां कुलिङ्गा ख्यां नदी यमुनां प्राप्य सन्तीर्ण इत्यर्थः । यमुनासमीपे सन्तीर्णः अन्यत्रातिवंगत्वादन्यत्र पर्वतावृतत्वाच्चेति भावः । आतपखिन्नं बलं मध्याह्ने आश्वासयत् ॥६॥ आश्वासनप्रकारमाह-शीतीकृत्येति । तत्र कुलिङ्गायमुनासम्भेदे । |दूरगमनेन कान्तान् वाजिनः कश्चित्कालं छायास्वाश्वास्य तेषां यात्राणि शीतीकृत्य आईपृष्ठानि कृत्वा । स्वयं सात्वा उदकं च पीत्वा । उत्तरत्र गन्तव्यदेशस्य निर्जलदेशत्वात्तत्र पानार्थमुदकमादाय च प्रायात् ॥७॥ राजपुत्र इति । राजपुत्रत्वेन भद्रः मङ्गलाचारयुक्तः । अनभी। माकुर्वती शिलामासमन्तात्कुर्वतीम्, शिलाकर्षणस्वभावामित्यर्थः । नदीम् आग्नेयं शल्यकर्तनमिति ग्रामद्वयम् । शिलावई सम्प्रेक्षमाणः चैत्ररथं नाम वनं लक्ष्यी कृत्य महाशैलांनत्ययात् ॥ ३॥ ४ ॥ सरस्वतीमिति । गङ्गा सिन्धुमित्यर्थः । युग्मेन सङ्गमेन प्रतिपद्य वीरमत्स्यानामुत्तरान् उत्तरप्रदेशान् । उत्तरमिति पाठे वनस्प विशेषणम् । भारुण्डं भारुण्डाख्यं वनं प्राविशदिति सम्बन्धः ॥ ५॥ ६॥ शीतीकृत्येति । जलावगाहनादिना शीतीकृत्य ॥ ७॥ राजपुत्र इति । अनभीक्ष्णोप
SSSSSSS
For Private And Personal Use Only