________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२२४॥
स० ७१
बा.रा.भू. 1 बलेनेति । महात्मा महाधैर्यो भरतः । आर्यकस्य मातामहस्य । बलेन गुप्तः आत्मसमैः स्वप्रभावसदृशैः । अमात्यैः सह शत्रुप्रमादाय अपेतशत्रुः निष्क टी.अ.कां. ण्टकः सन् इन्द्रलोकात् सिद्धो देवजातिरिख गृहाद्ययौ ॥ ३० ॥ इति श्रीगो० श्रीरामायणभूषणे पीता • अयोध्याकाण्डव्याख्याने सप्ततितमः सर्गः ॥ ७० ॥ बलेन गुप्तो भरतो महात्मा सहार्य कस्यात्मसमैरमात्यैः । आदाय शत्रुघ्नमपेतशत्रुर्गृहाद्ययौ सिद्ध इवेन्द्रलोकात् ॥ ३० ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्ततितमः सर्गः ॥ ७० ॥ स प्राङ्मुखो राजगृहादभिनिर्याय राघवः । ततः सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम् ॥ १ ॥ ह्रादिनीं दूरपारं च प्रत्यक्स्रोतस्तरङ्गिणीम् । शतद्रुमतरच्छ्रीमान नदीमिक्ष्वाकुनन्दनः ॥ २ ॥ एलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान । शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्त्तनम् ॥ ३ ॥ सत्यसन्धः शुचिः श्रीमान् प्रेक्ष माणः शिला वहाम् । अत्ययात् स महाशैलान् वनं चैत्ररथं प्रति ॥ ४ ॥
स प्राङ्मुखइत्यादि । अत्र दूता ऋजुदुर्गमार्गेण त्वरितं गिरिव्रजमागताः । भरतस्तु चतुरङ्गबलयुक्ततया वक्रमपि महामार्गमाश्रित्य ययौ । अतो नदी पर्वतादिभेदकीर्त्तनमिति बोध्यम् । सुदामां सुदामाख्यां नदीम् । अवेक्ष्य तां सन्तीर्य दूरेपारं परतीरं यस्यास्तां दूरपाराम्, विशालामित्यर्थः । ह्लादिनी द्वादिन्याख्यां नदीं सन्तीर्य शत शतद्राख्यां प्रत्यकस्रोतस्तरङ्गिणीं पश्चिमाभिमुख प्रवाहतरङ्गयुक्तां च नदीमतरत् ॥ १ ॥ २ ॥ एला धानइति । एलानामेलकानाम् आधानमुत्पत्तिस्थानं तद्वत्त्वादेलाघानारूये नगरे । नदीं पूर्वोक्तां शतद्र् तीत्यनुवादः । अपरपर्पटान पर्पटानामदूर भवो ग्रामः पर्पटाः । पर्पटा ओषधिविशेषाः । “अदूरभवश्व" इति प्राप्तस्याणः "वरणादिभ्यश्च" इति लुप् । लुपि युक्तवद्व्यक्तिवचनता । पूर्वपर्पटाः अपर पर्पटाश्चेति ग्रामद्वयमस्ति । तत्रापरपर्पटान् विश्रान्त्यर्थं प्राप्य शिलामाकुर्वत शिलामासमन्तात्कुर्वतीं शिलाकपर्णस्वभावाम् अतएव शिलावद्दामित्य बलेनेति । आर्यकस्य केकयराजस्य ||३०|| इति श्रीमहेश्वरतीर्यतीर्थविरचितायां श्रीरामायणतस्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां सप्ततितमः सर्गः ॥७०॥ स इति । सुदामा सुदामाख्याम् । ह्लादिनीं दूरपाराम् विस्तृतप्रवाह तत्संज्ञिकाम प्रत्यक्स्रोतस्तरङ्गिणीं पश्चिमप्रवाह तरङ्गयुक्तां च । तरङ्गयुक्तपश्चिम प्रवाहामित्यर्थः । शतङ्कं तत्संज्ञिकां नदीम् ॥ १ ॥ २ ॥ एलाधान इत्यादि । एलाधाने एलाधानप्रामे । अपर पर्यटान् अपरपर्पटाख्यदेशविशेषात् । शिला
For Private And Personal Use Only
॥२२४॥