SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Maha Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmander वतानित्यादिना । ऐरावतान् इरावतपर्वतभवान् । ऐन्द्रशिरान् इन्द्रशिराख्यपर्वतभवान् । शीघ्रान वेगवतः। सुसंयुक्तान परिचितान् ॥ २२॥ अन्तःपुर इति । मातुल इत्यनुषज्यते ॥ २३-२५ ॥ स इति । स्ववेश्म व्यतिक्रम्येत्यनेन स्ववेश्मप्रवेशोऽर्थसिद्धः । तथा च राज्ञा मातुलेन च स्वगृह एव कृत अन्तःपुरेऽतिसंवृद्धान्. व्याघ्रवीर्यबलान्वितान् । दंष्ट्रायुधान् महाकायान् शुनश्चीपायनं ददौ ॥ २३॥ स दत्तं केकयेन्द्रेण धनं तन्नाभ्यनन्दत । भरतः केकयीपुत्रो गमनत्वरया तदा ॥२४॥ बभूव ह्यस्य हृदये चिन्ता सुम हती तदा । त्वरया चापि दूतानां स्वप्नस्यापि च दर्शनात् ॥२५॥ स स्ववेश्म व्यतिक्रम्य नरनागाश्वसंवृतम् । प्रपेदे सुमहच्छ्रीमान राजमार्गमनुत्तमम् ॥ २६ ॥ अभ्यतीत्य ततोऽपश्यदन्तःपुरमुदारधीः । ततस्तद्भरतः श्रीमा नाविवेशानिवारितः ॥ २७॥ स मातामहमाप्टच्छ्य मातुलं च युधाजितम् । रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥ २८ ॥ रथान मण्डलचक्रांश्च योजयित्वा पर शतम् । उष्ट्रगोश्वखरै त्या भरतं यान्तमन्वयुः ॥२९॥ सत्कारो मातामह्यादिदर्शनार्थमन्तःपुरं गतवानिति बोध्यम् । अथवा भरतस्य दुःस्वप्नदर्शनदुःखदूतागमनवृत्तान्तश्रवणेन केकयमातुलो स्वगृहमेवा गताविति द्रष्टव्यम् । सुमहच्छीमान् सुमहाश्रीमान् ॥२६॥ अभ्यतीत्येति । राजमार्गमिति शेषः॥२७॥ स इति । मातामहं स्वेनैव सहान्तःपुर मागतं मातुलं च तथाभूतम् ॥२८॥ रथानिति । मण्डलचक्रान् वर्तुलचक्रयुक्तान् । पर शतं शतात्परान् “पतिर्विशति-" इत्यादिसूत्रे निपातनादेक वचनम् । रथानुष्दादिभिः संयोज्य भृत्याः यान्तं भरतमन्वयुः ॥२९॥ ऐरावतान ऐरावतकुलोद्भवान् । ऐन्द्रशिरान प्रशस्तगजोत्पत्तिहेतुभूतेन्द्रशिरनामकदेशोद्भवान् ॥२२-२५॥ स स्ववेझ्मेति । स्ववेश्माभ्यतिक्रम्पेत्यस्मादनु वादात्स्ववेश्मप्राप्तिरनुक्तापि अनुमेया । अयमत्र क्रियाक्रम:-मातामहमातुलाभ्यो दत्तं धनं गृहीत्वा स्ववेश्म प्रविश्य तत्र गमनसंविधानं कृत्वा निर्गत्य पुनश्च राज भवनं गत्वा तो दृष्ट्वा ततो निष्क्रम्य बहिर्निर्गत इति ॥ २६-२८ ॥ रथानिति । मण्डलचक्रान् मण्डलानि मण्डलाकाराणि मण्डलाकारतया योजितानि चक्राणि येषां तान रथान् । योजयित्वा मेवपित्वा । उगोश्ववलैः सह भृत्या यपुरिति सम्बन्धः ॥ २९ ॥ कतक-मण्डलाकारतया रथप्रवर्तनसा मण्डलचकम् । चतुर्दिक्चक्रमभ्यस्य तयेषां तान् । काश्यादौ च तथैदानी प्रसिद्धम् ॥ २९ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy