________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
टी.अ.कां.
.
वा.रा.भू. Hएवमिति । दूतेः सञ्चोदितो भरतः तान दूतानेवमुक्त्वा मातामहं वाक्यमुवाच ॥१४॥राजनिति । मे मां । यदा स्मरिष्यसि यदा आगन्तव्यमिति ॥२२३॥ पास्मरिष्यसि तदेष्यामि, आगन्तव्यामिति भवत्स्मरणं यदा जानामि तदा आगमिष्यामीत्यर्थः । मे इत्पत्र "अघीगथर्दयेशाम्-" इतिषष्ठी ॥ १५ ॥
एवमुक्त्वा तु तान दूतान भरतः पार्थिवात्मजः । दूतैः सञ्चोदितो वाक्यं मातामहमुवाच ह ॥ १४॥ राजन पितु गमिष्यामि सकाशं दूतचोदितः। पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि ॥ १५॥ भरतेनैवमुक्तस्तु नृपो मातामहस्तदा । तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम् ॥१६॥ गच्छतातानुजाने त्वां कैकेयी सुप्रजास्त्वया। मातरं कुशलं ब्रूयाः पितरं च परंतप ॥ १७॥ पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः। तौ च तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ ॥ १८ ॥ तस्मै हस्त्युत्तमांश्चित्रान् कम्बलानजिनानि च। अभिसत्कृत्य कैकेयो भरताय धनं ददौ ॥ १९॥ रुक्मनिष्कसहस्रे द्वे षोडशाश्वशतानि च।सत्कृत्य कैकयीपुत्रं केकयो धनमादिशत् ॥ २०॥ तथामात्यानभिप्रेतान विश्वास्यांश्च गुणान्वितान् । ददावश्वपतिः क्षिप्रं भरतायानुयायिनः ॥२१॥ ऐरावतानन्द्र शिरान्नागान्वै प्रियदर्शनान् । खरान शीघ्रान सुसंयुक्तान मातुलोऽस्मै धनं ददौ ॥ २२॥ भरतेनेत्यादि रामलक्ष्मणावित्यन्तं स्पष्टम् ॥ १६-१८॥ तस्मा इति । अस्यादावित्युक्त्वेत्युपस्कार्यम् । तस्मै भरताय अभिसत्कृत्य ददौ वाघापूर्व सददावित्यर्थः ॥ १९॥ रुक्मनिष्कसहस्र इति । निष्काः वक्षोभूषणानि । “निष्कोऽस्त्री इग्नि दीनारे साष्टे कर्षशते पले। वक्षोविभूषणे करें" इति वेज
यन्ती । धनम् उक्तरूपम् । आदिशत् आदाय गच्छतेति भृत्यानाज्ञापयामास ॥२०॥ तथेति । अमा सह प्राणांस्त्यजन्तीत्यमात्यास्तान् । अभिप्रेताच सहायभूतानित्यर्थः । विश्वास्यान् विश्वसनीयान् । अश्वपतिः केकयः ॥२१ ।। मातामहकृतसत्कारप्रकारमुक्त्वा मातुलकृतसत्कारप्रकारमाह-ऐरा राजनिति । मे मां यदा स्मरिष्यसि, आगन्तव्यमिति शेषः ॥ १५-१७ ॥ तो चेति । कुशलं ब्रूया इति पूर्वेण सम्बन्धः ॥ १८ ॥ तस्मादिति । तस्मै भरताय धनं ददावितिसम्बन्धः ॥ १९ ॥ रुक्मेति । रुक्मनिष्काणि पक्षोभूषणानि कण्ठभूषणानि वा ॥ २०॥ तपेति । अश्वपतिः केकयराजः ॥ २१॥ ऐरावतानित्यादि ।
For Private And Personal Use Only