SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kalassagarsun Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kobatith.org अवतीर्णामिति । अवतीर्णाम् अध:पतितां पश्यामीति सर्वत्रान्वयः । वर्तमानसामीप्ये वर्तमानवत्प्रपोगः ॥११-१३॥ पीठ इति । कृष्णाश्च पिङ्गलाश्च कृष्णपिङ्गलाः॥१४-१६ ॥ उक्तस्वप्रदर्शनफलमाह-एवमित्यादिना । इमां रात्रिम् अस्यां रात्रौ । अहं मरिष्यामीति विपरिणामः कार्यः ॥ १७॥ नर अवतीर्णा च पृथिवीं शुष्कांश्च विविधान् द्रुमान् । अहं पश्यामि विश्वस्तान सधूमांश्चापि पर्वतान् ॥ १३ ॥ पीठे कार्णायसे चैनं निषण्णं कृष्णवाससम् । प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः ॥१४॥ त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः । रथेन खरयुक्तेन प्रयातो दक्षिणामुखः ॥ १५॥ प्रहसन्तीव राजानं प्रमदा रक्त वासिनी। प्रकर्षन्ती मया दृष्टा राक्षसी विकृतानना ॥ १६॥ एवमेतन्मया दृष्टमिमां रात्रि भयावहाम् । अहं रामोऽथवा राजा लक्ष्मणो वा मरिष्यति ॥ १७॥नरो यानेन यः स्वप्ने खरयुक्तेन याति हि । अचिरात्तस्य धूमाग्रं चितायां सम्प्रदृश्यते ॥ १८॥ एतन्निमित्तं दीनोऽहं तन्न वः प्रतिपूजये । शुष्यतीव च मे कण्ठो न स्वस्थमिव मे मनः॥ १९ ॥ न पश्यामि भयस्थानं भयं चैवोपधारये । भ्रष्टश्च स्वरयोगो मे च्छाया चोपहता मम ॥२०॥ जुगुप्सन्निव चात्मानं न च पश्यामि कारणम् ॥२१॥ इमां हि दुःस्वप्नगतिं निशाम्य तामनेकरूपा मवितर्किता पुरा । भयं महत्तद्धृदयान्न याति मे विचिन्त्य राजानमचिन्त्यदर्शनम् ॥ २२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥६९॥ इति । धूमाग्रं धूमशिखा ॥ १८॥ एतदिति । एतनिमित्तम् उक्तस्वप्रदर्शनहेतुना ॥ १९॥ नेति । भयस्थानं भयकारणम् । अथ च भयमुपधारये अब शतो बिभेमि। छाया कान्तिः । “छाया त्वनातपे कान्तौ” इति वैजयन्ती ॥२०॥ जुगुप्सन्निति । जुगुप्सन्निव अस्मीति शेषः । कारणं जुगुप्साकार णम् ॥२१॥ इमामिति । तामिमां दुःस्वप्रगतिं दुःस्वमभेदम् । अवितर्कितां पूर्वमविचारिताम्, अमोघामितिभावः । पूर्वचिन्ताकृतत्वे हि वैफल्यम् । तिरोहिताम् । औपवाह्यस्य राजवाह्यस्य । अवदीर्णा विदारिताम् ॥ ११-१६ ॥ एवमिति । इमां रात्रिम् । अस्या राज्यामित्यर्थः ॥ १७-१९ ॥ नति । छाया कान्तिः ॥ २० ॥ जुगुप्सन्निति । आत्मानं जुगुप्सन्निव कारणं विनोति सम्बन्धः ॥ २१॥ इमामिति । पुरा न वितर्किता पूर्वमविचारिताम् ॥ २२ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामयणतत्वदीपिकाख्यायां अयोध्याकाण्डम्याख्यायां एकोनसप्ततितमः सर्गः ॥ ६९ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy