________________
Shri Maharan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
चा.रा.भ. ॥२२१॥
प्रभातस्वप्रः सद्यःकलद इति द्योतयितुमिदमुक्तम् ॥२॥ तप्यमानमिति । वयस्याः सुहृदः । आयासं मनः खेदम् ॥३॥ वादयन्तीति । शान्ति भर तस्य दुःखशान्तिमुद्दिश्य वादयन्ति, वीणादिकमितिशेषः । लासयन्ति लास्यं सुकुमारनृत्तम्, नाटकानि संस्कृतप्राकृतपैशाचमागधादिमिश्रगद्यपद्य
तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः। आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः॥३॥वादयन्ति तथा शान्ति लासयन्त्यपि चापरे । नाटकान्यपरे प्राहुर्हास्यानि विविधानि च ॥४॥ स तैर्महात्मा भरतः सखिभिः प्रियवादिभिः। गोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः ॥५॥ तमब्रवीत्प्रियसखो भरतं सखिभिवृतम् । सुहद्भिः पर्युपासीनः किं सखे नानुमोदसे ॥६॥ एवं ब्रवाणं सुहृदं भरतः प्रत्युवाच ह । शृणु त्वं यन्निमित्तं मे दैन्यमेतदुपागतम् ॥७॥ स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्द्धजम् । पतन्तमद्रिशिखरात् कलुषे गोमयदे ॥८॥प्लवमानश्च मे दृष्टः स तस्मिन् गोमयदे। पिबन्नञ्जलिमा तैलं हसन्नपि मुहुर्मुहुः ॥९॥ ततस्तिलौदनं भुक्त्वा पुनःपुनरधःशिराः। तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत ॥ १० ॥ स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि । उपरुद्धां च जगतीं तमसेव समावृताम् ॥ ११॥ औपवाह्यस्य नागम्य विषाणं शकलीकृतम् । सहसा
चापि संशान्तं ज्वलितं जातवेदसम् ॥ १२॥ रूपाणि । हास्यानि हासजनकवाक्यानि ॥४॥ स तैरिति । गोष्ठीहास्यानि गोष्ठी सभा, सभ्यहास्यानीत्यर्थः ॥५॥ तमिति । प्रियसखः अन्तरङ्गसुहृत् ।। "राजाहस्सखिभ्यष्टच " इतिटच ॥६-८॥ प्लवमान इति । प्लवमानः मण्डूकवत् ॥९॥ तत इति । तिलमिश्र ओदनः तिलौदनः ॥१०॥ स्वप्रेऽपीति।। तमसा समावृतामिव । उपरुद्धां तिरोहिताम् । औपवाह्यस्य राजवाह्यस्य "औपवारो राजवाह्यः" इतिहलायुधः । नागस्य गजस्य। जातवेदसा अमिना। तप्यमानमिति । आयास मनाखेदम् ॥ ३॥ वादयन्तीति । वयस्याः शान्ति मन खेदशान्तिमुद्दिश्य वादयन्ति । करतालवेणुमृदङ्गादीनीति शेषः । लासयन्ति खी: नाटयन्ति । नाटकानि संस्कृतप्राकृतमागधादिमिश्नगद्यपद्यरूपाणि । हास्यानि हासजनकरूपधाक्यानि ॥४-१०॥ स्वपीति । तमसा समावृतामिव । उप
॥२१५॥
For Private And Personal Use Only