SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तत्तीरवर्तिशाल्मलीवृक्षम् । अत्र मार्गविशेषवर्णनं पुण्यभूमित्वेन नराणां सेवनीयत्वद्योतनार्थम् ॥ १९॥२०॥ त इति । विकृष्टेन विप्रकृष्टेन अतिदूरेणेत्यर्थः। गिरिव्रजमिति केकयपुरस्य नामान्तरम् । शीघ्रशब्दसान्निध्येन अञ्जसाशब्देन मानसत्वरोच्यते । अअसा आर्जवेनेतिवार्थः ॥ २१ ॥ भर्तुरिति । भर्तुः श्रान्तवाना दूता विकृष्टेन पथा ततः । गिरिवजं पुरवरं शीघ्रमासेदुरअसा ॥ २१ ॥ भर्तुः प्रियार्थं कुलरक्षणार्थं भर्तुश्च वंशस्य परिग्रहार्थम् । अहेडमानास्त्वरया स्म दूता रात्र्यां तु ते तत्पुरमेव याताः ॥ २२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टषष्टितमः सर्गः ॥ ६८ ॥ यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् । भरतेनापि तां रात्रिं स्वतो दृष्टोऽयमप्रियः ॥ १ ॥ व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् । पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir 1.GL दशरथस्य । प्रियार्थे शीघ्रानीत भरत कृतौ र्द्धदेहिकादिना दशरथस्य परलोकप्राप्तिहेतुत्वात् । कुलरक्षणार्थं सनाथीकरणेन कुलजातानां संरक्षणार्थम् भर्तुर्वेशस्य इक्ष्वाकुवंशस्य । परिग्रहार्थे प्रतिष्ठार्थम् । यद्वा भर्तुर्वेशो भरतादिः तस्य परिग्रहार्थे प्रतिष्ठार्थम् । पित्रोर्द्धदेहिक कर्मनिर्वर्तनेन सज्जन परि ग्रहार्थे वा । अहेडमानाः "हेड अनादरे" इत्यस्माद्धातोः शानच् । अनादरमकुर्वाणाः सादरा इति यावत् । अतएव त्वरया युक्ताः दूताः रात्र्यामेव अस्त मयानन्तरमपि कियत्कालं गत्वा राज्यामेव तत्पुरं याताः ॥ २२ ॥ इति श्रीगोविन्दराज श्रीरामायणभू० पीता० अयो० अष्टषष्टितमः सर्गः ॥ ६८ ॥ यामिति । यामेव यस्यामेव । सप्तम्यर्थे द्वितीया छान्दसी । तां तस्याम् । अयं वक्ष्यमाणः ॥ १ ॥ व्युष्टामिति । व्युष्टां प्रभातायां सत्यामित्यर्थः तइति । विकृष्टेन विप्रकृष्टेन । अतिदूरेणेत्यर्थः । गिरिव्रजमिति केकय पुरस्य नामान्तरम् । शीघ्रशन्दसन्निधानादसा शब्देन मानसत्वरोच्यते ॥ २१ ॥ भर्तुरिति । भर्तुर्दशरथस्य प्रियार्थं शीघ्रानीत भरतकृतौर्ध्वदेहिकादिना दशरथस्य परलोकप्राप्तिहेतुत्वात् । भर्तुर्दशरथस्य वंशस्य भर्तुर्वैशो भरतादिः तस्य लोकेन मति ग्रहार्थः । अहेडमानाः "हेड अनादरे " इति धातोः शानच् । अनादरमकुर्वाणाः, सादरा इति यावत् ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां अष्टषष्टितमः सर्गः ॥ ६८ ॥ यामित्यादि श्लोकद्वये वर्तमाना द्वितीयान्तरात्रिशब्दाः सप्तम्यर्थप्रतिपादकाः । अयं वक्ष्यमाणः ॥ १ ॥ व्युष्टामिति । व्युष्टायां प्रभातायां सत्यामित्यर्थः ॥ २ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy