SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsur Gyarmandie टी.अ.को ॥२२०॥ जाङ्गलः हस्तिनपुरस्य कुरुदेशस्थत्वात्तदन्तर्गतजाङ्गलाख्यदेशमध्येन पाञ्चालदेशमासाद्य तत्रदेशे सरप्रभृतीनिरीक्षमाणा जग्मुः॥१३॥१॥त इति। शरदण्डां शरदण्डाख्यां नदीम् । उपातिजग्मुः उपगम्यातीत्य जग्मुः ॥ १५ ॥ निकूलवृक्षमिति । निकूलवृक्षं शरदण्डायाः पश्रिमकूलस्थं पुण्यवृक्षम् । "ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् । उपातिजग्मुर्वेगेन शरदण्डो जनाकुलाम् ॥ १५॥ निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम् । अभिगम्याभिवाद्यं तं कुलिङ्गा प्राविशन पुरीम् ॥ ६॥ अभिकालं ततः प्राप्य ते बोधिभवनाच्युताम् । पितृपैतामही पुण्यां तेरुरिक्षुमती नदीम् ॥ १७ ॥ अवेक्ष्याअलिपानांश्च ब्राह्मणान वेदपार गान् । ययुमध्येन बाहीकान् सुदामानं च पर्वतम् ॥ १८॥ विष्णोः पदं प्रेक्षमाणा विपाशा चापि शाल्मलीम् । नदीर्वापीस्तटाकानि पल्वलानि सरांसि च ॥ १९॥ पश्यन्तो विविधांश्चापि सिंहव्याघ्रमृगदिपान् । ययुः पथाति महता शासनं भर्तुरीप्सवः ॥२०॥ दिव्यं देवाधिष्ठानवत् । सत्यमुपयाचनं प्रार्थनं यस्मादित्यवर्थनाम सत्योपयाचनमिति, अथितार्थप्रदमित्यर्थः । अभिवाद्यं सर्वनमस्कार्यम् । अभि । गम्य प्रदक्षिणीकृत्य, कुलिङ्गा पुरी प्राविशन् ॥ १६॥ अभिकालमिति । अभिकालं तदाख्यग्रामम् । कुलिङ्गासाहचर्यात् बोधिभवनात् तदाख्यात् पर्वतात् नदीमूलत्वोक्तेः । पितृपेतामहीं दशरथवंश्यानुभूताम्, तत्तीरप्रदेशयामा इक्ष्वाकूणामिति भावः ॥ १७॥ अवेक्ष्येति । अअलिपानान् अञ्जलि प्रमाणजलमात्राहारान् । ब्राह्मणान इक्षुमतीतीरवासिनः। मध्येन बाबीकान् बाहीकदेशानां मध्येन । “एनपा द्वितीया" । सुदामानं सुदामाख्यम् ॥१८॥ विष्णोः पदमित्यादि । विष्णोः पदं विष्णोः पदाङ्कितं स्थानम् । इदं च स्थानं सुदामाख्यपर्वतवर्तिसान्निध्यात । विपाशा सुदामपर्यन्तनदीम् । शाल्मली त इति । शरवण्डा शरदण्डाख्या नदीम् ॥१५॥ निकूलेति । निकलवृक्षं शरदण्डाया उत्तरकूलसमीपस्थवृक्षम् । अस्य सत्योपयाचनमित्युक्तिः अर्थितार्थप्रदातृत्वात १५॥ (तेजोभिभवनादिति पाठा) अभिकालतेजोमिभवनी प्रामी। पिलूपैतामहीं इक्ष्वाकुवंषैरनुभूताम् ॥१७॥ अवेक्ष्येति । अनलिपानान अनलिप्रमाणकजलमात्रा हारान् । बाढीकानां बाहीकदेशस्थजनपदान् ॥ १८॥ विष्णोरिति । विष्णोः पदं विष्णुपदाद्वितं स्थानविशेषम् । विपाशशाल्मल्पो नद्यौ ॥१९॥२०॥ ॥२२०॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy