________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
स्त्रीप्रभृतीनां स्वप्रयाणं कथयितुम् । सम्मतान् जवनत्वेनाध्वश्रमसहत्वेन च सम्मतान् ॥ १०॥ तत इति । प्रास्थानिक प्रस्थानप्रयोजनकम् । अनन्तरं कार्यशेषं पाथेयादिकं च कृत्वा पुनर्वसिष्ठेनाभ्यनुज्ञानं स्वविलम्बस्याल्पत्वं द्योतयितुम् ॥ ११ ॥ न्यन्तेनेति । अपरतालस्य अपरतालो
ततःप्रास्थानिकं कृत्वा कार्यशेषमनन्तरम् । वसिष्ठेनाभ्यनुज्ञाता दूताः सन्त्वरिता ययुः॥ ११ ॥ न्यन्तेनापरतालस्य प्रलम्बस्योलरं प्रति । निषेवमाणास्ते जग्मुर्नदी मध्येन मालिनीम ॥ १२॥ ते हस्तिनपुरे गङ्गां तीा प्रत्यङ्मुखा ययुः। पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥ १३॥
सरांसि च सुपूर्णानि नदीश्च विमलोदकाः। निरीक्षमाणास्ते जग्मुद्रूताः कार्यवशाद्रुतम् ॥ १४॥ नाम गिरिः तस्य न्यन्तेन नितरामन्तेन, चरमपदेशेनेत्यर्थः । “अन्तो जघन्यं चरमम् ” इत्यमरः । प्रलम्बस्य प्रलम्बाख्यगिरेः । उत्तरं प्रति उत्तरभागमुद्दिश्य । तयोर्मध्येन मालिनी नदी निषेवमाणा जग्मुः । अपरतालः पुरस्तादक्षिणोत्तरायतः, प्रलम्बः पश्चाद्भागे दक्षिणोत्तरायतः पूर्वा । परायतश्चेति पर्वतसंनिवेशः। प्रथममयोध्यायाः पश्चिमाभिमुखं निर्गच्छन्तः तयोर्मध्येन उदङ्मुखाः कियन्तमध्वानं मालिनीतीरमार्गेण गत्वा
ततःप्रलम्बस्योत्तरभागेन पश्चिमाभिमुखा जग्मुरित्यर्थः ॥१२॥ते हस्तिनपुर इत्यादिश्लोकद्वयमेकं वाक्यम् । इस्तिनपुरे हस्तिनपुरसमीपे । गङ्गां । जातीवा प्रत्यङ्मुखाः सन्तः जग्मुः, ते दूताः मध्येन कुरुजाङ्गलं कुरुनाङ्गलस्य मध्यमार्गेण । “ एनपा द्वितीया " इति द्वितीया । कुरुदेशैकदेशो
तमाशानदेवतव्याः । सम्मतान ॥१०॥ प्रास्थानिक प्रस्थानयोग्यद्रव्यम्, निक्षिप्येत्यर्थः । कार्यशेषमुद्दिश्येति शेषः ॥११॥ न्यन्तेनेति । अपरतालस्या अपरतालनामा गिरिः तस्य पन्तेन नितरामन्तो न्यन्तः चरमप्रदेशः पश्चिममाग इत्यर्थः । तेन प्रलम्बस्य अपरतालपर्वतात्पश्चिमभागस्थस्य प्रलम्बास्यगिरेः उत्तरं प्रति उत्तरभागमुद्दिश्य तयोर्मध्येन मालिनी मालिन्याख्यो नदी निषेवमाणा जग्मुः । अपरतालः पुरस्तादक्षिणोत्तरायतः, प्रलम्बस्तु पश्चिमभागे दक्षिणो त्तरायतः पूर्वापरायातश्च । एवं पर्वतसन्निवेशप्रकार:-प्रथममयोध्यायाः पश्चिमाभिमुखं निर्गच्छन्तः दक्षिणोत्तरान्योन्यपूर्वापरस्थयोरपरतालप्रलम्बयोर्मध्येन मालिनी नाम नदी निषेवमाणा उदङमुखाः कियन्तं दूरं गत्वा ततः प्रलम्बस्योत्तरभागेन पश्चिमाभिमुखा जग्मुरित्यर्थः ॥ १२॥ ते हस्तिनपुर इत्यादि श्लोकद्वयमेकं । वाक्यम् । ते पाचालदेशमासाद्य हस्तिनपुरे गङ्गा तीर्वा प्रत्यङ्मुखा ययुः । ते दूताः कुरुजाङ्गलमध्येन कुरुजाङ्गलपोर्मध्यमार्गेण सरांसि नदीच निरीक्षमाणाः कार्यवशात द्रुतं जग्मुरिति योजना ॥ १३ ॥१४॥
For Private And Personal Use Only