________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyarmandir
घा.रा.भ.
टी.अ.को
॥२२२॥
स०७०
अचिन्त्यदर्शनम् असम्भाव्यदर्शनम् । अत्र सगे " अथ स्वप्ने पुरुष कृष्णं कृष्णदन्तं पश्यति खरबराहेः " इत्यादिश्रुतिरुपबृंहिता । स्वप्रश्च । पूर्वचिन्तापुरस्कृतो न फलति । प्रत्यूषे च फलति सद्यः। यामविलम्बात्फलविलम्बः । फलं च द्रष्टुः दृष्टस्य तत्सम्बन्धिनो वा भविष्यतीत्यादिक मुक्तम् ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनसप्ततितमः सर्गः ॥ ६९ ॥
भरते हुवति स्वप्नं दूतास्ते क्लान्तवाहनाः। प्रविश्यासह्यपरिघं रम्यं राजगृहं पुरम् ॥१॥ समागम्यतु राज्ञा च राज पुत्रेण चार्चिताः। राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः॥२॥ पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः । त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥३॥ इमानि च महार्हाणि वस्त्राण्याभरणानि च । प्रतिगृह्य विशा लाक्ष मातुलस्य च दापय ॥ ४॥ अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते। दशकोटयस्तु संपूर्णास्तथैव च नृपा त्मज ॥५॥ प्रतिगृह्य तु तत्सर्वं स्वनुरक्तः सुहृज्जने । दूतानुवाच भरतः कामैः संप्रतिपूज्य तान् ॥६॥ भरत इति । असह्यपरिषं परैरप्रधृष्यपरिघम् । राज्ञा केकयराजेन । राजपुत्रेण युधाजिता। अर्चिताः आनीतोपायननिरीक्षणेन संमानिताः । राज्ञः भरतस्य। भरतस्य परमप्रकृतत्वात् तमिति निर्देशः ॥ १॥२॥ पुरोहित इति । आत्ययिकं दुष्करम् । अत्ययः कृच्छ्रम् “अत्ययोऽतिकमे कृच्छ्रे मरणे दण्डदोषयोः" इतिवैजयन्ती । त्वया कृत्यं कर्तव्यम् अतो निर्याहीत्यन्वयः॥३॥ इमानीति । विशालाक्षेति विभूषणावलोकनजनितविस्मयोत्फुल्लाक्षत्व। |माह । मातुलस्य च दापयेति समुच्चयात प्रथमं मातामहस्य दापय अथ मातुलस्य दापयेत्यर्थः ॥४॥ अत्रेति । अत्र वस्त्रभरणादिमहाईवस्तुजाते । नृपतेः विंशतिकोव्यः विंशतिकोटिमूल्यानि वस्त्राभरणादीनि । मातुलस्य दशकोयःदशकोटिमूल्यानि । संपूर्णा अन्यूना इत्युभयविशेषणम् । तथैव तदईमेव । अन्यथा राजतुल्यतया राजपुत्रदाने तस्य बहुमान एव न भवतीति भावः॥५॥प्रतिगृह्येति । सुहृजने मातुलादो स्वनुरक्तः प्रदाप्येति शेषः। कामै भरत इति । राज्ञा केकयराजेन । राजपुत्रेण युधाजिता ॥१॥ २ ॥ पुरोहित इति । आत्ययिकम् अत्ययः कृच्छं तत्र भवमात्ययिकम् । कृत्यं कर्तव्यम् अस्तीति शेषः ॥ ३॥ इमानीति । मातुलस्य चकारान्मातामहस्यापीत्यर्थः ॥४॥ अत्रेति । अत्र वस्त्राभरणादिमहाईवस्तुसमूहे । नृपतेविंशतिः कोटवः विंशतिकोटि मूल्यानि वस्त्राभरणानि । मातुलस्य दशकोटयः दशकोटिवस्त्राभरणानि ॥५॥ प्रतिगृह्येति । कामः अभिमतवस्तुजातेः॥६-११ ॥
१
॥२२२
For Private And Personal Use Only