________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा.रा.भू.
बान्धवाः पुत्रादृते महीपतेर्दहनं न रोचयन्ते । अनेनातिबलपराक्रमयुक्तसत्पुत्रसद्भावेप्यस्मिन् काले दैववशादे कोप्य सन्निहितः तूष्णीमवस्थानमयुक्तम् ॥२१६॥ अतो येन केनापि प्रकारेण संस्कारः कर्तव्य इति कैश्विद्यत्नः कृत इति गम्यते । तस्मिन् शयने पूर्वोक्ततैलद्रोण्यम् ॥ २७ ॥ गतप्रभेति ।
• गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी । पुरी बभासे रहिता महात्मना न चास्त्रकण्ठा कुलमार्ग चत्वरा ॥ २८ ॥ नराश्च नार्यश्च समेत्य सङ्घशो विगर्हमाणा भरतस्य मातरम् । तदा नगर्यो नरदेवसंक्षये बभूवुरार्ता न च शर्म लेभिरे ॥ २९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥ आक्रन्दित निरानन्दा सास्रकण्ठजनाकुला । अयोध्यायामवतता सा व्यतीयाय शर्वरी ॥१॥ व्यतीतायां तु शर्वर्या मादित्यस्योदये ततः । समेत्य राजकर्तारः सभामीयुर्द्विजातयः ॥ २ ॥ मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः । कात्यायनो गौतमश्च जाबालिश्च महायशाः॥ ३ ॥ एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन । वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम् ॥ ४॥ अतीता शर्वरी दुःखं या नो वर्षशतोपमा । अस्मिन्पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे ॥५॥ व्यपेतनक्षत्रगणा चन्द्रादिसकलते लोहीना। रामादिसकलराजरहितस्योपमा । आस्रकण्ठैः कण्ठस्तम्भितबाष्पैः आकुलानि मार्गचत्वराणि यस्याः सातथोक्ता ॥ २८ ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्षष्टितमः सर्गः ॥ ६६ ॥ अथाराजक दोपवर्णनम् - आकन्दित निरानन्देति । आकन्दितेन हेतुना निरानन्दा । अवतता दीर्घा, दुःखवशादतिदीर्घभूतेत्यर्थः ॥ १ ॥ व्यतीताया मिति । राजकर्तारः राजाभिषेक कार्यकर्तारः ॥२-४॥ अतीतेति । अस्मिन् पार्थिवे पुत्रशोकेन पञ्चत्वमापत्रे सति । या शर्वरी नः अस्माकं वर्षशतोपमा नराश्चेति । नरदेवसङ्घये नगर्या तदा नरा नायंश्च सङ्घशः समेत्य भरतस्य मातरं विगर्हमाणा आर्ता बभूवुः। न शर्म लेभिरे चेति सम्बन्धः ॥ २९ ॥ इति श्रीमहे श्वरतीर्थविरचितायां श्रीरामा० अयोध्याकाण्डव्याख्यायां षट्षष्टितमः सर्गः ॥ ६६ ॥ आक्रन्दितेति । आक्रन्दितेन रोदनेन निरानन्दा। सालकण्ठजनाकुला विलापा स्रकण्ठजनैः क्षुब्धा । शर्वरी अयोध्यायां तता विस्तृता दुःखवशादीर्घभूता व्यतीयाय ॥ १ ॥ व्यतीतायामिति । राजकर्तारः राजाभिषेककर्तारो द्विजातयः ॥ २ ॥ एत इति । द्विजाः उदीरयन् । अडव आर्षः ॥ ३ ॥ ४॥ अतीतेति । पुत्रशोकेनास्मिन् पार्थिवे पञ्चत्वमापत्रे सति । दुःखं यथातथा वर्षशतोपमा शर्वरी अतीतेति
For Private And Personal Use Only
टी.अ. को
सः ६७
॥२२६॥