________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
आसीत् । सा शर्वरी दुःखं यथा तथा अतीता ॥५॥६॥ उभाविति । राजगृहे राजगृहनामनि पुरे, वतेंते इतिशेषः ॥७॥ इक्ष्वाकूणामिति निर्धारणे षष्ठी । रामादीनां चतुर्णा मध्ये इत्यर्थः। अद्यैव राजाविधाने दोपः-अराजकं हीति ॥ ८॥ अराजकत्वस्य विनाशहेतुत्वं प्रपञ्चयति-नाराजक
स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः । लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह ॥६॥ उभौ भरतशत्रुघ्नौ कैकयेषु परन्तपौ। पुरे राजगृहे रम्ये मातामहनिवेशने ॥७॥ इश्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् । अराजकं हि नो राष्ट्रं न विनाशमवाप्नुयात् ॥८॥ नाराजके जनपदे विद्युन्माली महास्वनः । अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा ॥ ९॥ नाराजके जनपदे बीजमुष्टिः प्रकीर्यते । नाराजके पितुः पुत्रो भार्या वा वर्तते वशे ॥१०॥ नाराजके धनं चास्ति नास्ति भार्याप्यराजके । इदमत्याहितं चान्यत् कुतः सत्यमराजके ॥ ११ ॥ नाराजके जनपदे कारयन्ति सभा नराः । उद्यानानि चरम्याणि हृष्टाः पुण्यगृहाणि च ॥ १२॥ नाराजके जनपदे
यज्ञशीला द्विजातयः। सत्त्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः ॥१३॥ इत्यादिना । विद्युन्मालीत्यादिविशेषणैर्महावर्षो दुर्लभ इतिभावः । दिव्येनेत्यनेन शिलावर्षस्तु भविष्यतीति भावः ॥ ९॥ नेति । बीजमुष्टिः न प्रकीर्यते फललाभनिश्चयाभावादिति भावः । भार्या वशे न वर्तते व्यभिचारे शिक्षकाभावादिति भावः॥१०॥ नाराजक इति । धनं नास्ति चोरभयादिति भावः । भार्या नास्ति बन्धुनिग्रहादितिभावः । इदं वक्ष्यमाणम् । अन्यत् पूर्वोक्तभयादन्यत् । अत्याहितं महाभीतिरस्ति । “अत्याहितं महाभीतिः" इत्य मरः। तदेवाह कुत इति । सत्यं क्रयविकयादिलक्षणम् ॥११॥ सभा न कारयन्ति मनस्स्वास्थ्याभावात् । उद्यानानि न कारयन्ति छेदनभयात् । पुण्यगृहाणि देवतायतनादीनि न कारयन्ति दुर्गनिर्माणभयादिति भावः ॥ १२॥ ब्रह्म वेदः तदध्येतारो ब्राह्मणाः । “तदधीते तद्वेद्" इत्यण । सम्बन्धः ॥५॥६॥ उमाविति । कैकयेषु केकयदेशेषु । राजगृहे राजगृहनानि पुरे, वर्तते इति शेषः ॥ ७॥ इक्ष्वाकूणामिति । इक्ष्वाकूणा मध्ये ॥८॥९॥ नाराजक इति । बीजमुष्टिर्न प्रकीर्यते वीजावापो न क्रियत इत्यर्थः ॥१०॥ इदमत्याहितं च नास्ति “अत्याहितं महाभीतिः" इत्यमरः । अराजके सति अमार्ग वर्तिनां न कुवापि भयशङ्केति भावः । पुण्यगृहाणि पुण्यसम्पादकानि सत्रगृहाणि, मठादीनि वा॥११॥१२॥ सत्राणि दीर्घसत्राणि । नान्वासते न कुर्वन्तीत्यर्थः॥१३॥ कतक-राजकं सदि राष्ट्र नो माझं नावाप्नुपायथा ' इति पाठः । नः अस्माकम् राष्ट्र राजकं राजपुतं सत् । नाश नाप्नुयाद्यथा तथा कचिद्राजा विधीपतामित्यन्वषः । हिर्वाक्यालङ्कारे ॥८॥
For Private And Personal Use Only