SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir | भारमिति । त्यक्तधर्मणः त्यक्तधर्मायाः "धर्मादनिच केवलात्" इत्यनिच ॥५॥ नेति । लुब्धः अर्थलिप्सुः। किम्पार्क कुत्सितपाकम्, विषमिश्र पाकमित्यर्थः । किम्पाको नाम-काकमर्दनामकविषफलविशेष इति केचित् । कुन्जानिमित्तं कुब्जाहेतोः। "निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्" भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः। इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः ॥५॥ न लुब्धो बुद्धयते दोषान् किम्पाकमिव भक्षयन् । कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम् ॥६॥ अनियोगे नियुक्तेन राज्ञा रामं विवासितम् । सभार्य जनकः श्रुत्वा परितप्पयत्यहं यथा ॥ ७॥ स मामनाथां विधवा नाद्य जानाति धार्मिकः । रामः कमलपत्राक्षो जीवनाशमितो गतः॥८॥ विदेहराजस्य सुता तथा सीता तपस्विनी । दुःखस्यानुचिता दुःखं वने पर्युद्रिजिष्यति ॥९॥ इति हेतौ प्रथमा ॥६॥ अनियोग इति । अनियोगे वरप्रदानसमये वरस्य विशेषनिर्देशाभावे सति । नियुक्तेन इदानीं भरताभिषेकरूपे रामविवासनरूपे IMIच कैकेय्या नियुक्तेन अनुचितनियोगे नियुक्तंनेतिवार्थः । जनको वैदेहः ॥७॥ स इति । इतः अत्र देशे राज्ञा जीवनाशं गतः प्राप्तः। स रामः अनाथा पुत्रविरहेण रक्षकान्तररहितां विधवा मां न जानाति ॥ ८॥ विदेहराजस्येति । तपस्विनी शोचनीया । दुःखमितिक्रियाविशेषणम् । पर्युद्विजिष्यति भयं । रहितेत्यर्थः॥ ४॥ भर्तारमिति । त्यक्तधर्मणः त्यक्तधर्मायाः॥ ५॥ कथमेव साहसं कृतवतीत्याशङ्कच लुब्धायास्तस्या अकार्यमस्तीति सदृष्टान्तमाह-न लुब्ध इति । लुब्धः अर्थलिप्सुः । किम्पाकं विषमिश्रपाकम् । यद्वा किम्पार्क कुत्सितपाकम्, अभक्ष्यमिति यावत् । भक्षयन जनः दोषान जानातीव कुब्जानिमित्तं राघवाणां कुलं कैकेय्या हतमिति सम्बन्धः ॥ ६॥ अनियोगेति । अनियोगे वरदानसमये वरस्य विशेषनिर्देशाभावेपि, विनियुक्तेन इदानीं भरताभिषेकरूपे रामविवासन रूपे च विशेषे कैकेय्या नियुक्तेन । जनकः वैदेहः ॥ ७॥ स मामिति । राघवः रघुवंशजः । इतः जीवन्नेव नाशं गतः अदर्शनं गतः । रामो मां विधा न जाना तीति सम्बन्धः । यद्वा जीवनाशमिति पाठे-जीवनाश, राज्ञ इति शेषः । मां विधां च रामो न जानातीति सम्बन्धः॥८॥ विदेहेति । पर्युद्रिजिष्यति भयं । VI सत्य-कुब्धः वञ्चितः । किपाकं धत्तरादिफलम् भक्षयन् यथा न बुध्यते तथा राजा दोषान बुद्धयत इति केचित् । किंपाकः पलाशं वा । तद्भक्षणे क्षणेन उदरशूलेति मिषजः । “किपाको महाकाल पलाशयोः" इति मेदिनी ॥६॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy