________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
कौसल्यासुमित्रयोर्विशेषो नासीदित्यर्थः ॥ १८॥ ते इति । सुप्ते ते उभे देव्यौ च दृष्ट्वा । सुतमेव सन्त मुद्गतप्राणं तं नृपं च अन्तःपुरम् अन्तःपुरजनः । अदृश्यत अपश्यत् ॥ १९ ॥२०॥ तासामिति । सहसोद्गतचेतने सहसोत्पन्नप्रबोधे ॥२१-२३ ॥ नृप इदि । शान्तगुणे शान्तदेहोष्णस्पन्दनादि
ते च दृष्ट्वा तथा सुप्ते उभे देव्यौ च तं नृपम् । सुप्तमेवोद्गतप्राणमन्तःपुरमदृश्यत ॥ १९॥ ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः। करेणव इवारण्ये स्थानप्रच्युतयूथपाः ॥२०॥ तासामाक्रन्दशब्देन सहसोद्गतचेतने । कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः ॥२१॥ कौसल्या च सुमित्रा च दृष्ट्वा स्टव्वा च पार्थिवम् । हा नाथेति परिक्रुश्य पेततुर्धरणीतले ॥ २२ ॥ सा कोसलेन्द्रदुहिता वेष्टमाना महीतले । न वभ्राज रजोध्वस्ता तारेव गगना च्युता ॥ २३ ॥ नृपे शान्तगुणे जाते कौसल्यां पतितांभुवि। अपश्यंस्ताः स्त्रियः सर्वा हतां नागवधूमिव ॥२४॥ ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः । रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः॥२५॥ ताभिः स बलवान्नादः
क्रोशन्तीभिरनुद्वतः। येन स्थिरीकृतं भूयस्तद्गृहं समनादयत् ॥ २६ ॥ गुणे ॥ २४ ॥ २५ ॥ ताभिरिति । स नादः कौसल्याप्रभृतीनां नादः । कोशन्तीभिस्ताभिः पश्चात्प्रविष्टकैकेयीप्रभृतिभिः अनुद्रुतः अनुमृतोऽभूत् ।। येन अनन्तरकोशानुद्रुतेन पूर्वनादेन स्थिरीकृतं व्याप्तं तत्सर्वं गृहं समनादयत् महान्तं प्रतिध्वनिमजनयदित्यर्थः ॥२६॥ इव प्रतिभात इति सम्बन्धः । उभे अपि मृत इव प्रतिभात इति भावः ॥ १८॥ ते चेति । अन्तःपुरं कर्तृ । सुतं नृपं सुप्ते दन्यौ च दृष्ट्वा नृपं तं दशरयमुद्तमाणं अदृश्यत । ते देव्यावपि तथा उद्गतप्राणे इत्यर्थः । अदृश्यत अपश्यत् कर्तरि यक । जज्ञ इत्यर्थः । यद्वा अन्तःपुरस्य कर्तृत्वं कर्मत्वं च । तथाचायमर्थः-अन्तःपुरंM स्वमात्मानं उगतप्राणमदृश्यत । अन्यत्समानम् ॥१९॥२०॥ तासामिति । सहसोद्गतचेतने उत्पन्नप्रबोधे ॥२१-२३॥ नृप इति । शान्तगुणे गतप्राण इत्यर्थः ॥२४॥२५॥ ताभिरिति । ताभिः कैकेयीप्रभृतिभिः । पश्चादन्तःपुरं प्रविष्टाभिः प्रथमप्रविष्टानां वीर्णा नादः अनुदुतः अभिसंवर्द्धितः अभूदित्यर्थः । येन नादेन स्थिरीकृतं । मुखरितं तद्गृहं कर्तृ, भूयोऽत्यर्थ समनादयत् अनददित्यर्थः । यदा येत गोन ग्रह स्थिरीकृतं पूर्व पूरितं क्रोशन्तीभिः पश्चात्मविष्टकैकेय्यादिभिः अनुद्रुतः अभि|M
For Private And Personal Use Only