SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir दन्तधावनानन्तरं गण्डूषत्वेन प्राशनीयानि सम्पिष्टतिलनारिकेलजीरकादिद्रव्याणि औषधविशेषानितिवार्थः, गङ्गादितीर्थोदकानीतिवार्थः, अनुदिनी मखिलदुरितहरणायाखिलकर्मणामधिकारापादनाय च प्राशनीयानि कुलाराधनभूतश्रीरङ्गनाथचरणारविन्दसमर्पिततीर्थोंद कतुलस्यादीनीति वार्थः । सर्वलक्षणसम्पन्नं सर्व विधिवदर्चितम् । सर्व सुगुणलक्ष्मीवत्तद्रभूवाभिहारिकम् ॥ १०॥ तत्तु सूर्योदयं यावत्सर्व परिसमुत्सुकम् । तस्यावनुपसम्प्राप्तं किंस्विदित्युपशङ्कितम् ॥११॥ अथ याःकोसलेन्द्रस्य शयनं प्रत्यनन्तराः। ताः स्त्रियस्तु समागम्य भतारं प्रत्यबोधयन् ॥ १२॥ तथाप्युचितवृत्तास्ता विनयेन नयेन च । न ह्यस्य शयनं स्टष्ट्वा किश्चिदप्युपलेभिरे ॥१३॥ तीर्थोदकभाजनावरणपेटिकादेरेव परिचारकैरानयनं ज्ञेयम् । उपस्करान् दर्पणवस्त्राभरणकुसुमादीनि । कुमारीबहुलाः कुमारीप्रायाः । स्त्रियः इति द्वितीया । वारयोषित इति यावत् ॥ ९॥ सर्वलक्षणसम्पन्नमिति । आभिहारिकं राज्ञे प्रातर्यदाहर्तव्यं मङ्गलार्थमानेतव्यम् । तत्सर्वं सर्वलक्षणसम्पन्न त्वादिधर्मविशिष्टं बभूव । सुगुणं च तत् लक्ष्मीवच्चेति समासः ॥ १०॥ तदिति । तत् पूर्वोक्तं परिजनजातम् । सूर्योदययावत् सूर्योदयात् पूर्वमेव । परिसमुत्सुकं राजसेवासमुत्सुकम् । अनुपसंप्राप्तम् अनागतं राजानं प्रति किंस्विदित्युपशङ्कितं सत् तस्थौ । राजा नागतः तस्य किंवा स्यादिति शङ्का संयुक्तं तस्थावित्यर्थः ॥ ११॥ अथति । याः कौसल्यादिव्यतिरिक्ताः। शयनं प्रत्यनन्तराः शयनसनिकृष्टा इत्यर्थः । प्रत्यबोधयन् प्रबोधनोचितसपि नयमृदुवाक्यैः प्राबोधयन्नित्यर्थः॥ १२॥ तथेति । तथापि बोधयित्वापि । उचितवृत्ताःस्पर्शनादिव्यापारोचिताः । विनयेन प्रश्रयेण नयेन युक्त्या च अस्य शयनं शयनस्थानं स्पृष्ट्वा किंचिदपि निद्रालक्षणम् उच्छासादिकम् । न लेभिरे न ज्ञातवत्यः॥१३॥ करजीरकादिद्रव्यविशेषान् । उपस्करान दर्पणवस्त्राभरणानि । कुमारीबहुलाः कुमार्यः बहुला यासु ताः ॥९॥ सर्वलक्षणेति । सर्व विधिवदचितं यथायोग्यं बहूकृतं सुगुणलक्ष्मीवत् सुगुणवल्लक्ष्मीवञ्च । आभिहारिकम अभिहारः अभिग्रहणं राजस्वीकारजन इति यावत् ॥ १०॥ तदिति । तत् पूर्वोक्तं परिजनजातम् । अनुप सम्पाप्तम् अनागतं राजानं प्रति शङ्कितमभूदिति पूर्वेण सम्बन्धः ॥ ११॥ अथेति । याः कौसल्यादिव्यतिरिक्ताः शयनं प्रत्यनन्तराः शयनस्य सनिकृष्टा इत्यर्थः। प्रत्यवोधयन राजप्रतिबोधनोचितमृदुविनयवाक्यैः प्राबोधयन्नित्यर्थः ॥ १२ ॥ तथापीति। उचितवृत्ताः उचितव्यापाराः। विनयेन प्रश्रयेण । नयेन नीत्या च । किशि For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy