________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥२१२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रासादेषु आभोगः परिपूर्णता तया विस्तीर्णः “आभोगः परिपूर्णता " इत्यमरः ॥ ३ ॥ तत इति । स्तुवतां स्तुवत्सु सत्सु । पाणिवादकाः ताल गत्या विविधं पाणिभ्यां वादयन्तीति पाणिवादकाः । अपदानानि वृत्तान्यद्भुतकर्माणि । पाणिवादानवादयन् पाणिवादान कुर्वन्नित्यर्थः ॥ ४ ॥
ततस्तु स्तुवतां तेषां मृतानां पाणिवादकाः । अपदानान्युदाहृत्य पाणिवादानवादयन् ॥ ४ ॥ तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः । शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥ ५ ॥ व्याहृताः पुण्यशब्दाश्च वीणानां चापि निस्वनाः । आशीर्गेयं च गाथानां पूरयामास वेश्म तत् ॥ ६ ॥ ततः शुचिसमाचाराः पर्युपस्थानकोविदाः । स्त्रीवर्ष धरभूयिष्ठा उपतस्थुर्यथापुरम् ॥ ७ ॥ हरिचन्दनसंपृक्तमुदकं काञ्चनैर्घटैः । आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि ॥ ८ ॥ मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान् । उपनिन्युस्तथाप्यन्याः कुमारी बहुलाः स्त्रियः ॥ ९ ॥ शाखास्थाः गृहारामवृक्षशाखासु वर्तमानाः । राजकुलगोचराः राजगृहे दृश्यमानाः विहगाः शुकादयः ॥ ५ ॥ व्याहृता इति । व्याहृताः ब्राह्मणैरुक्ताः । पुण्यशब्दाः पुण्यपुरुषक्षेत्रतीर्थ कीर्त्तनादिरूपाः । पूरयामासुरिति विपरिणामेन योजनीयम् । गाथानां दशरथविषयप्रबन्धविशेषाणां सम्बन्धि आशीगेंयं आशीर्वादरूपगानम् ॥ ६ ॥ तत इति । पर्युपस्थानकोविदाः कालोचितपरिचर्याविचक्षणाः । स्त्रीवर्षधरभूयिष्ठाः अन्तःपुराध्यक्ष स्त्रीभिः वर्षधरैः पण्डेश्व! समृद्धाः, परिचारका इति शेषः ॥ ७ ॥ हरिचन्दनसंपृक्तमिति । हरिचन्दनसंपृक्तं हरिचन्दनसंमिश्रम् । स्नानशिक्षाज्ञाः स्नानप्रकारज्ञाः यथाविधि यथा नियमम् ॥ ८ ॥ मङ्गलालम्भनीयानीति । मङ्गलालम्भनीयानि मङ्गलरूपानुलेपनानि तैलोद्वर्तनादीनि । स्पर्शनीयानि गवादीनीत्येके । प्राशनीयानि तत इति । स्तुवतां स्तुवत्सु सत्सु । पाणिवादकाः तालगत्या विविधं पाणिनैव वादयन्ति ये ते पाणिवादकाः । अपदानानि वृत्ताद्भुतकर्माणि राजभिः कृताद्भुतचरित्राणीत्यर्थः ॥ ४ ॥ तेनेति । शास्त्रास्था गृहारामवृक्षे शाखासु वर्तमानाः । राजकुलगोचराः राजगृहे दृश्यमानाः ॥ ५ ॥ व्याहता इति । पुण्य शब्दाः हरिनारायणादिपुण्यशब्दाः । यद्वा पुण्यश्लोकपुरुषाणां कीर्तनानि । आशीर्गेयन् आशीरूपं गानम् । गाथानां राज्ञां चरित्रप्रतिपादकश्लोका गाथाः तासाम् । पूरयामासेत्येतत् यथायोगं वचनविपरिणामेन योजनीयम् ॥ ६ ॥ तत इति । पर्युपस्थानकोविदाः कालोचित परिचर्याविचक्षणाः । स्त्रीवर्षधर भूयिष्ठाः अन्तःपुराध्यक्षस्त्रीभिः वर्षधरैः षण्टेश्च भूयिष्ठाः समृद्धाः परिचारिका इति शेषः । यथापुरं यथापूर्वम् ॥ ७ ॥ हरिचन्दनेति । स्नानशिक्षाज्ञाः स्नान विधिज्ञाः ॥ ८ ॥ मङ्गलेति । मङ्गलालम्भनीयानि मङ्गलरूपानुलेपनानि तैलोद्वर्तनादीनि प्राशनीयान दन्तधावनानन्तरं गण्डूषत्वेन प्राशनीयान् सम्पिष्टतिलनालि
For Private And Personal Use Only
टी.अ.कां.
स० ६५
॥२१२ ॥