________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
एवं शरीरशैथिल्यकृतचित्तनाशादिन्द्रियनाश इति सूचितम् ॥७४॥७॥ हेति । आयासनाशन दुःखनाशन ॥ ७६-७९॥ इति श्रीगोविन्दराज | विरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुःषष्टितमः सर्गः॥६४ ॥ अथेत्यादिश्लोकद्वयमेकवाक्यम् । रात्र्यां रात्रिशेषे
हा राघव महाबाहो हा ममायासनाशन । हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥ ७६ ॥ हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि । हा नृशंसे ममामित्रे कैकेयि कुलपांसनि ॥ ७७ ॥ इति रामस्य मातुश्च सुमि त्रायाश्च सन्निधौ। राजा दशरथः शोचञ्जीवितान्तमुपागमत् ॥७८ ॥ यदा तु दीनं कथयन्नराधिपः प्रियस्य पुत्रस्य विवासनातुरः । गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः ॥ ७९ ॥ इत्याचे श्रीरामायणे वाल्मी कीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुःषष्टितमः सर्गः ॥६४ ॥ अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि । वन्दिनः पर्युपातिष्ठस्तत्पार्थिवनिवेशनम् ॥ १॥ सूताः परमसंस्कारा मङ्गलाश्चोत्तमश्रुताः। गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक ॥२॥राजानं स्तुवतां तेषामुदात्ताभिहिता शिषाम् । प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥३॥ परमसंस्काराः व्याकरणाद्युत्तमसंस्कारयुक्ताः श्रेष्टालङ्कारयुक्ता वा । बन्दिन इति पूर्वमुक्तत्वात् मृताः वंशावलिकीतकाः । मङ्गलाः मङ्गल पाठकाः । उत्तमं श्रुतं गान्धर्वशाखश्रवणं येषां ते उत्तमश्रुताः। एतद्विशेषणद्वयं गायकमात्र विशेषणम् । अन्यत्सर्वविशेषणम् सर्वत्र पर्युपातिष्टनिति क्रियापदम् ॥ १॥२॥ राजानमिति । उदात्ताभिहिताशिपाम् उदातेन उच्चैःस्वरेण अभिहिताः प्रयुक्ताः आशिषो यस्तेषाम् । प्रासादाभोगविस्तीर्ण ॥७६-७९ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामाषणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां चतुःषष्टितमः सर्गः ४६४॥ अयेत्यादिश्लोकद्वयमेकं वाक्यम् । परमसंस्काराः व्याकरणादिशिक्षावन्तः परमालङ्कारा वा । मङ्गलाः मङ्गलपाठकाः ॥१॥२॥ राजानमिति । प्रासादाभोगविस्तीर्णः प्रासादेषु आभोगः परिपूर्णता तया विस्तीर्णः। स्तुतिशब्दो ह्यवर्तत प्रासादेषु सर्वत्र पूर्णतया स्तुतिशब्दो व्याप्त इति भावः ॥ ३ ॥
For Private And Personal Use Only