________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
विवर्धकैः व्यञ्जनैः सह सम्भुक्तः अन्नरसः व्याधिमुल्बणयन्निति शेषः । समुपस्थितो भवति बाघकत्वेन प्राप्तो भवति । अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथेति च पाठः ॥ ६० ॥ तस्मादिति । उदारस्य शापप्रदातुः । उदारत्वोक्तिरपुत्रस्य पुत्रसम्पादनपरत्वात् । यद्वा उदारस्य महतः “उदारो दातृ तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः । यदहं पुत्रशोकेन सन्त्यक्ष्याम्यद्य जीवितम् ॥ ६१ ॥ चक्षुभ्यि त्वां न पश्यामि कौसल्ये साधु मा स्टश। इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह च भूमिपः ॥ ६२ ॥ एतन्मे सदृशं देवि यन्मया राघवे कृतम् । सदृशं तत्तु तस्यैव यदनेन कृतं मयि ॥ ६३ ॥ दुर्वृत्तमपि कः पुत्रं त्यजेद्भुवि विच क्षणः । कश्च प्रव्राज्यमानो वा नासूयेत्पितरं सुतः ॥ ६४ ॥ यदि मां संस्पृशेद्रामः सकृदद्य लभेत वा । यमक्षय मनुप्राप्ता द्रक्ष्यन्ति नहि मानवाः ॥ ६५ ॥ चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते । दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् ॥६६॥ अतस्तु किं दुःखतरं यदहं जीवितक्षये । नहि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम् ॥६७॥ महतोः " इत्यमरः । वचो मामागतं शापरूपवचनाथ मां प्राप्त इत्यर्थः ॥ ६१ ॥ चक्षुभ्यमिति । मा माम् ॥ ६२ ॥ इत्युक्त्वा स रुदंखस्तो भार्यामाह च भूमिप इत्यद्धनिन्तरम् एतन्मे सदृशं देवि यन्मया राघवे कृतम् । सदृशं तत्तु तस्यैव यदनेन कृतं मयि । इतिक्रमः ॥ ६३ ॥ एतदर्थद्वयं कमेणोप पादयति-दुर्वृत्तमित्यर्धद्वयेन ॥ ६४ ॥ यदीति । रामः सकृदप्यद्य मां संस्पृशेत् उभेत वा चक्षुर्विषयतां प्राप्नुयाद्वा तदा जीवेयमिति गम्यमानत्वा तदनुक्तिः । किमर्थमेवमर्थनं करोषीत्यत्राह-यमेति । यमक्षयं यमगृहमनुप्राप्ताः मानवाः बान्धवान्न द्रक्ष्यन्ति हीत्यर्थः । तस्माज्जीवनकाल एवं दर्शन तस्मादिति । उदारस्य महतः वचः, ममागतं शापरूवचनार्थो मां प्राप्त इत्यर्थः ॥ ६१ ॥ ६२ ॥ एतन्म इति । मया राघवे विवासनरूपं कर्म कृतम् एतन्मे सदृशम् । अनेन रामेण यत्कृतं कैकेयीवोधितमद्वाक्यात्प्रवाजनं तत् तस्यैव सदृशम् । यद्वा तत्तु पुत्रशोकेन जीवितस्य त्यजनं तस्यैव शापकर्मण एव सदृशम्, यदनेन मुनिना मयि कृतं तस्य शापस्यानुरूपमेव तदिदं मरणमित्यर्थः ॥ ६३ ॥ तदेव समर्पयति दुर्वत्तमिति । यद्वा एतन्मे सदृशमित्यादिसार्धश्लोकमेकं वाक्यम् । अनेन मुनिना मयि यत्कृतं तस्य शापस्य एतत्पुत्रविवासनरूपं कर्म सदृशम् अन्यथा विचक्षणः को वा दुर्वृत्तमपि पुत्रं त्यजेत् प्रवाज्यमानः को वा पुत्रः
• यदम्यारभ्य द्रश्यन्ति नहिमानवाः इत्यन्तश्लोकानां पौर्वापर्य केषुचित्पुस्तकेव्वित्यं दृश्यते इत्युक्त्वा वदहम्। चतुर्भ्याम् । यमक्षयम् । यदि माम् । एतन्मे सदृशं तत्तु का प्रत्राज्यमानः । इति ।
For Private And Personal Use Only