________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyarmandir
वा.रा.भू.
॥२१॥
पायद्यस्मात्कारणात मम एतन्मरणपर्यवसायिपत्रव्यसनजं दुःखम, अभदिति शेषः । एवं पत्रशोकेन कालं करिष्यसि, मृत्यु प्राप्स्यसात्यय टा.अ.की "कालो मृत्यो च समये” इति वेजयन्ती ॥ ५५॥ अज्ञानादिति । ब्रह्महत्या बहुपातकमित्यर्थः । अन्यथा वैश्यात् शूद्राया जातस्य करणाख्यस०६४
अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः। तस्मात्त्वां नाविशत्याशु ब्रह्महत्या नराधिप ॥५६॥ त्वामप्ये तादृशो भावः क्षिप्रमेव गमिष्यति । जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥५७॥ एवं शाप माय न्यस्य विलप्य करुणं बहु । चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात् ॥५८ ॥ तदेतच्चिन्तयानेन स्मृतं पापं मया स्वयम् । तदा बाल्यात् कृतं देवि शब्दवेध्यनुकर्षिणा ॥ ५९॥ तस्यायं कर्मणो देवि विपाकः समुपस्थितः ।
अपथ्यैः सह सम्भुक्तो व्याधिमन्नरसो यथा ॥६॥ सङ्करजातित्वेन ब्रह्महत्याप्रसत्यभावात् ॥५६॥ त्वामिति । एतादृशः पुत्रशोकरूपः। भावः स्वभावः । दातारमिव दक्षिणा यथा विप्राय दक्षिणा
दत्ता दातारं स्वसदृशफलं प्रापयति तथेत्यर्थः । पुत्रशोकातिशयेन इह जन्मन्येव फलमनुभविष्यसीति धिया क्षिप्रमित्युक्तवान् । दक्षिणाशब्देन ला दक्षिणाहेतुकं सुकृतं लक्ष्यते ॥ १७ ॥ एवमिति । देहमित्येकवचनेन चितारोहणकाले देहयोर्गाढवद्धत्वं लक्ष्यते ॥५८॥ तदिति । शब्दवेध्यनु कर्षिणा शब्दवेधिनं बाणं प्रयुञानेन । यद्वा शब्दवेधिनं बाणं मुक्त्वा पुनस्तच्छरीरप्रोतझल्यमनुकृष्टवतेत्यर्थः। चिन्तयानेन मरणपर्यवसायी पुत्रशोका प्राप्तः अस्य किंनिदानमिति चिन्तयानेन । एतत् पापं स्मृतं मुनिकुमारखधरूपं पापं स्मृतिविषयमभूदित्यर्थः॥ ५९॥ तस्येति । अपथ्यः व्याधि दुःखमभूदिति शेषः। एवं पुत्रशोकेन कालं करिष्यति मृत्यु प्राप्स्यसीत्यर्थः ॥ ५५ ॥ अज्ञानादिति । त्वां ब्रह्महत्या नाविशति हननस्याज्ञानमूलत्वात्तस्य करणत्वा चेति भावः ॥ ५६ ॥ त्वामिति । एतादृशः पुत्रशोकरूपः । पुत्रशोकातिशयेन इहैव कर्मफलमनुभविष्यामीति धिया क्षिप्रमित्युक्तवान् । दक्षिणाशब्देन दक्षिणा हेतुकं सुकृतं लक्ष्यते ॥ ५७ ॥ ५८॥ तदिति । एतचिन्तयानेन मरणपर्यवसायिपुत्रशोकः प्राप्तः, अस्य कारणं किमिति चिन्तयानेनेत्यर्थः। तदा बाल्यात शब्द
वेध्यानुशिक्षिणा शब्देन वेढुं योग्यं शब्दवेध्यं वेध्यमनुशिक्षितुं शीलमस्यास्तीति शब्दवेध्यानुशिक्षितेन मया कृतं तत्वार्ष मुनिकुमारवधरूपं स्मृतं स्मृतिविषयम NIभूदित्यर्थः (शब्दवेध्यानुशिक्षिणा इति पाठः) ॥५९ ॥ तस्येति । विपाकः फलम् । अपथ्यैः व्याधिवर्धकम्यानस्सह अनरसे सम्भुक्के म्याधिर्यथा ॥ ६॥ IN
॥२१०५
For Private And Personal Use Only