________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपितु मम बान्धवः पुत्रः त्वं येन निहतः स एवाकुशलां गतिं यास्यति ॥ ४६ ॥ एवमिति । उदकं संस्कारपूर्वोदकक्रियाः ॥ ४७ ॥ स त्विति । | शक्रेण सह स्वर्गमध्यारुहदित्यनेन मुनिपुत्रं स्वर्ग नेतुं शक्रः समागत इति गम्यते ॥ ४८ ॥ सङ्ग्रहेणोक्तं स्वर्गारोहणं विवृणोति-आवभाष इति । तापसः एवं स कृपणं तत्र पर्यदेवयतासकृत् । ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया ॥ ४७ ॥ स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः । स्वर्गमध्यारुहत् क्षिप्रं शक्रेण सह धर्मवित् ॥ ४८ ॥ आवभाषे च तौ वृद्धौ सह शक्रेण तापसः । आश्वास्य च मुहूर्त तु पितरौ वाक्यमब्रवीत् ॥ ४९ ॥ स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात् । भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः ॥ ५० ॥ एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता । आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः ॥ ५१ ॥ स कृत्वा तूदकं तूर्ण तापसः सह भार्यया । मामुवाच महातेजाः कृताञ्जलिमुप स्थितम् ॥५२॥ अद्यैव जहि मां राजन मरणे नास्ति मे व्यथा । यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् ॥ ५३ ॥ त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिः । तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् ॥ ५४ ॥ पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम् । एवं त्वं पुत्रशोकेन राजन् कार्ल करिष्यसि ॥ ५५ ॥
शक्रेण सह तो वृद्धौ आबभाषे । आभाषणेपि वृद्धयोरश्रवणात् पुनराहेत्याह आश्वास्य चेति ॥ ४९ ॥ स्थानमिति । मूलं समीपम् । “आद्ये शिफायां नक्षत्रे मूलं कुञ्जसमीपयोः" इति निघण्टुः ॥ ५० ॥ एवमिति । वपुष्मता प्रशस्ताकारेण । प्रशंसायां मतुप् ॥ ५१ ॥ ५२ ॥ अद्येति । जहि प्राणान् मोचय । " हन्तेर्जः " इति जादेशः । कथं मारणं दुःखाकरत्वादित्यत्राह - मरणे नास्ति मे व्यथेति । व्यथाभावहेतुमाह यदिति । अतोपि किं व्यथा | ऽस्तीति भावः ॥ ५३ ॥ त्वयेति । अभिशाप नतु भस्मीकरोमीति भावः । सुदुःखमतिदारुणमिति क्रियाविशेषणम् ॥ ५४ ॥ पुत्रव्यसनजमिति || एवमिति । उदकं संस्कारपूर्वकोदकक्रियाम् ॥ ४७ ॥ स त्विति । शक्रेण सह स्वर्गमध्यारुहृदित्यनेन मुनिपुत्रं स्वर्ग नेतुं शक्रः समागत इत्यवगम्यते ॥ ४८ ॥ सङ्घ ॐ हेणाक्तं स्वर्गारोहणं विवृणोति - आवभाष इत्यादिना । आभाष इत्यस्य प्रपञ्चार्यः आश्वास्येत्यादि । यद्वा तापसः तो वृद्ध आश्वास्य आवभाषे, पितरों वाक्यम वीदित्येतत् भवन्तावपि भ्रम मूलमुपैष्यत इत्यनेनोत्तरेण सम्बध्यते ॥ ४९ ॥ स्थानमिति । मूलं समीपम् ॥ ५० ॥ एवमिति । वपुष्मता प्रशस्ताकारेण ॥५१॥५२॥ अग्रेवेति । जहि प्राणान्मोचय ॥ ५३ ॥ त्वयेति । सुदुःखमतिदारुणमिति च क्रियाविशेषणम् ॥ ५४ ॥ पुत्रेति । यत् यस्मान्मम एतत् मरणपर्यवसाथि पुत्रव्यसनं
For Private And Personal Use Only