________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
चा.रा.भू. ॥२०॥
9
.६४
कृतो वधः वज्रिणमिन्द्रमपि स्थानात् च्यावयेत् । ज्ञानपूर्व कृतः ज्ञानकृतस्तु विशेषतच्यावयेत् । अविलम्बो विशेषः॥२४॥ सप्तधेत्युपलक्षणं बहुघेत्यर्थः। टी.अ.को ब्रह्मवादिनि परमात्मज्ञे । ब्रह्मचारिणीति पाठे-चरतेर्गत्यर्थत्वात् “सर्वे गत्यर्था ज्ञानार्थाः" इति न्यायेन ब्रह्म तत्त्वं चरितुं ज्ञातुं शीलमस्यास्तीति ब्रह्मचारी तस्मिन् । “ज्ञाने तत्त्वे तपोध्यात्मवेदेषु ब्रह्म चोच्यते” इति निघण्टुः॥२५॥ यस्मात् कारणात् इदं दुष्कृतमज्ञानात्कृतं तेन त्वं जीवसि अपि च
सप्तधातु फलेन्मूर्द्धा मुनौ तपसि तिष्ठति । ज्ञानाद्विसृजतः शस्त्रं तादृशे ब्रापादिनि ॥ २५ ॥ अज्ञानाद्धि कृतं यस्मादिदं तेनैव जीवसि। अपि ह्यद्य कुलं न स्यादिक्ष्वाकूगां कुतो भवान् ॥ २६॥ नय नौ नृपतं देशमिति मां चाभ्यभाषत । अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् ॥ २७॥ रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिनवाससम् । शयानं भुवि निस्संज्ञं धर्मराजवशङ्गतम् ॥ २८॥ अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ । अस्पर्शयमहं पुत्रं तं मुनि सह भार्यया ॥ २९॥ तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ । निपेततुः शरीरेऽस्य पिता चास्येद मब्रवीत् ॥३०॥ नाभिवादयसे माऽद्य न च मामभिभाषसे। किं नु शेषेच भूमौ त्वं वत्स किं कुपितो ह्यसि ॥३॥ न त्वहं ते प्रियः पुत्र मातरं पश्य धार्मिक । किन्नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥ ३२ ॥ कस्य वाऽपररात्रेऽहं
श्रोष्यामि हृदयङ्गमम् । अधीयानस्य मधुरं शास्त्रं वान्यदिशेषतः॥ ३३॥ अब ज्ञानपूर्वकत्वे वधस्य राघवाणां कुलं न स्यात् भवान् कुतः स्यात् जीवत्, इति मामुवाचेत्यन्वयः ॥२६॥ नयेत्यादिश्लोकद्वयमेकं वाक्यम् । धर्मराजवशं गतं पुत्रं द्रष्टुमिच्छावः अतः नौ तं देशं नयेति मामभ्यभाषतोत सम्बन्धः॥२७॥२८॥ अथेति । अई तो नीत्वा अई तमस्पर्शयमिति सम्बन्धेनाहंशब्दद्वयावयर्थ्यम् ॥ २९-३१ ॥ न विति । अहं ते प्रियः न तु चेत् मातरं पश्येत्यन्वयः ॥ ३२ ॥ कस्येति । हृदयङ्गमं मनोहरस्वरम्
मे एवं गते प्रमादादेवं प्राप्ते सति । शेषमनन्तरकर्तव्यं यत्स्यात् तत्प्रसीदतु तदुद्दिश्याज्ञापयत्वित्यर्थः ॥ २०-२४ ॥ सप्तधेति । ब्रह्मवादिनि ब्रह्म वक्तुं शीलमस्या | सस्तीति तथा तस्मिन् ॥ २५ ॥ अपि ह्यद्येति । राघवाणां कुलमपि न स्यात, ज्ञानपूर्वकं चेदिति शेषः । कुतो भवान् किं पुनर्भवानित्यर्थः ॥ २६ ॥ नयेत्यादिश्लोक
1.२०८॥ द्वयमेकं वाक्यम् । धर्मराजवशंगतम् अतएव पश्चिमदर्शनम् अन्त्यदर्शनं पुर्व द्रष्टुमिच्छावः,नो तं देशं नयेति मामभ्यभाषतेति सम्बन्धः॥ २७ ॥ २८॥ अथाह मिति । अहं तो नीत्वा अई तमस्पर्शयमिति सम्बन्धः ॥ २९-३१ । न त्विति । अहं ते प्रियो न चेत् मातरं पश्येति सम्बन्धः ॥ ३२ ॥ कस्पेति । हृदयङ्गमं मनो
For Private And Personal Use Only