________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
आगतं गजं श्वापदं हिंस्रशार्दूलादिकं च जिघांसुः चापहस्तोऽहं सरयूतीरमागतः ॥ १४ ॥ तत्रेति । पूर्यतः पूर्यमाणस्य । अयं शब्दहेतुः पदार्थः द्विप इति मत्वा अयं तव सुतः मया अभिहतः ॥ १६-१८ ॥ स इति । उद्धृतेन वाणेन हेतुना अन्धौ पितरौ मातापितराविति भवन्तावेव शोचन् विलप्य तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः । द्विपोऽयमिति मत्वाऽयं वाणेनाभिहतो मया ॥ १५ ॥ गत्वा नद्या स्ततस्तीरमपश्यमिषुणा हृदि । विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् ॥ १६ ॥ भगवन् शब्दमालक्ष्य मया गजजिघांसुना । विसृष्टोऽम्भसि नाराचस्ततस्ते निहतः सुतः ॥ १७ ॥ ततस्तस्यैव वचनादुपेत्य परितप्यतः । स मया सहसा बाण उद्धृतो मर्मतस्तदा ॥ १८ ॥ स चोद्धृतेन वाणेन तत्रैव स्वर्गमास्थितः । भवन्तौ पितरौ शोच न्नन्धाविति विलप्य च ॥ १९ ॥ अज्ञानाद्भवतः पुत्रः सहसाभिहतो मया । शेषमेवङ्गते यत्स्यात्तत्प्रसीदतु मे मुनिः ॥ २० ॥ स तच्छ्रुत्वा वचः क्रूरं मयोक्तमघशंसिना । नाशकत्तीव मायासमकर्तुं भगवानृषिः ॥ २१ ॥ स वाष्पपूर्ण arat निश्वसन् शोककर्शितः । मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ २२ ॥ यद्येतदशुभं कर्म न त्वं मे कथयेः स्वयम् । फलेन्मूर्द्धा स्म ते राजन् सद्यः शतसहस्रधा ॥ २३ ॥ क्षत्त्रियेण वधो राजन् वानप्रस्थे विशेषतः । ज्ञानपूर्वकृतः स्थानाच्यावयेदपि वज्रिणम् ॥ २४ ॥
च स्वर्गमास्थितः ॥ १९ ॥ अज्ञानादिति । एवंगते एवंप्राप्ते सति । यच्छेषं कर्तव्यं स्यात् शापानुग्रहादिकं तत्प्रति मे मयि प्रसीदतु, शापोवाऽनुग्रहो वा यः कर्तव्यस्तं करोत्वित्यर्थः ॥ २० ॥ स इति । अघशंसिना दुःखशंसिना । आयासं व्यसनम् अकर्तुं नाशकत्, कृतवानेवेत्यर्थः ॥ २१ ॥ २२ ॥ यदीति । स्मेति वाक्यालङ्कारे । फलेत् विशीर्येत् । “त्रिफलाविशरणे" इति धातुः । मच्छापेनेतिशेषः || २३ || क्षत्रियेण पालकेन वानप्रस्थे अज्ञानतः उग्रसत्त्वम् । निपाने जलपानस्थाने ॥ १४ ॥ तत्रेति । पूर्यतः पूर्यमाणस्य । द्विपोऽयमिति मत्त्वा अयं शब्दाश्रयो द्विप इति मत्वा । अयं तव सुतः बाणेनाभिहत इत्यन्वयः ।। १५-१८ ।। स चेति । उद्धृतेन वाणेन हेतुना । अन्धो मातापितरौ इति भवन्तावेव शोचन विलप्य स्वर्गमास्थित इति सम्बन्धः ॥ १९॥ अज्ञान
For Private And Personal Use Only