________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू
इति णिच् ॥ ७॥ यन्निमित्तं किंनिमित्तमित्यर्थः । यदा यनिमित्तं त्वया सलिले क्रीडितम् इदं बहीतिशेषः। यन दत्तमिति पाठे-इदानी पानीयं न टी.अ.को. दत्तमिति यत् तस्मात्त्वया सलिले क्रीडितमित्यन्वयः । उत्कण्ठिता शोकस्मरणवत्यभूत् ॥ ८॥ व्यलीकम् अप्रियम् । अलीकमितिपाठे-अलीकम ॥
स०६१ यन्निमित्तमिदं तात सलिले क्रीडितं त्वया। उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् ॥ ८॥ यद्यलीकं कृतं पुत्र मात्रा ते यदि वा मया । न तन्मनसि कर्तव्यं त्वया तात तपस्विना ॥९॥ त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम् । समासक्तास्त्वयि प्राणाः किं त्वं नो नाभिभाषसे ॥१०॥ मुनिमव्यक्तयावाचा तमहं सज्जमानया । हीनव्यञ्जनया प्रेक्ष्य भीतोभीत इवाब्रवम् ॥११॥ मनसः कर्मचेष्टाभिरभिसंस्तभ्य वाग्बलम्। आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ॥ १२॥ क्षत्रियोऽहं दशरथो नाहं पुत्त्रो महात्मनः। सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम्
॥ १३॥ भगवंश्चापहस्तोऽहं सरयूतीरमागतः। जिघांसुःश्वापदं कञ्चिनिपाने चागतं गजम् ॥ १४॥ पराधः'अलीकमपराधः' इतिहलायुधः॥९॥ त्वमिति । नः अस्मान इति मुनिर्वाक्यमभाषतेत्यन्वयः ॥ १० ॥ मुनिमिति । सजमानया स्खलन्त्या। हीनव्यञ्जनया अस्पष्टाक्षरया। "व्यञ्जनं श्मश्रुनिष्टानचिह्नेष्ववयवेऽक्षरे” इति वैजयन्ती। अव्यक्तया वाचा अब्रवमिति सम्बन्धः । भीतोपि सन् भीतः भीतोभीतः, अत्यन्तभीत इत्यर्थः (पाठभेदः । भीतोऽपि सन्नभीत इवात्रवम् ।) इवशब्दो वाक्यालङ्कारे ॥११॥ उक्तमेव विशदं दर्शयति-मनस इति । मनसः कर्म ऊहापोहात्मकम् । चेष्टाः इन्द्रियनियमनरूपव्यापाराः ताभिवाम्बलम् अभिसंस्तभ्य स्खलितां वाचं बलादृढीकृत्येत्यर्थः। तस्मै भय माचचक्ष इतिसम्बन्धः । यद्वा वाग्बलमभिसंस्तभ्य लज्जाभीतिप्रभृतिभिः मन्दवचनोभूत्वेत्यर्थः । आचचक्षे इति लिडुत्तमपुरुषैकवचनम् ॥१२॥ क्षत्रिय इति । महात्मनः, तवेतिशेषः । सज्जनावमतं सजनावमतिविषयभूतम्, सत्पुरुषगर्हितमित्यर्थः ॥ १३ ॥ भगवनिति । निपाने जलावतारे । इदं पानीयं यद्यस्मान दत्तं तस्मात्त्वया सलिले क्रीडितमिति । यन्निमित्तमिति पाठे-यनिमित्तं त्वयासलिले क्रीडितमिदं ब्रूहीति शेषः॥८॥ यदिति । व्यलीकमप्रियम् । अलीकमिति पाठे-अपराधः ॥९॥१०॥ मुनिमिति । सजमानया स्वलन्त्या । हीनव्यञ्जनया अस्पष्टाक्षरया अतएवाध्यक्तया बाचाबवमिति सम्बन्धः॥ ११॥10॥२०७॥ मनस इति । मनसः कर्म इतस्ततः परिधावनम् । वाग्बलम् उच्चारणशक्तिः तदुभयं चेष्टाभिः शरीरव्यापारैः सह । संस्तभ्य संनियम्य । मनोवाकायान स्थिरी कृत्येति यावत् । तस्मै भयमाचचक्ष इति सम्बन्धः ॥ १२ ॥ क्षत्रिय इति । सजनावमतं सजनावमतिविषयम्, सज्जनगर्हितमित्यर्थः ॥१३॥ भगवन्निति । श्वापदम
For Private And Personal Use Only