________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsur Gyarmandie
वघमिति । विलपन्नेव मध्ये स्वपुत्रं विलपन्नेव ॥ १॥ तदिति । सङ्कलेन्द्रियः व्याकुलेन्द्रियः । सुकृतं सुटु कृतम्, मुनिकुमारवचनमितिशेषः । इत्पचि न्तयमित्युपस्कार्यम् । यद्वा अस्य वधज्ञापनाज्ञापनयोः किं शुभोदकै भवेदित्यचिन्तयमित्यर्थः ॥ २॥ तत इति । ततः मुनिकुमारोक्तज्ञापनमेव |
वधमप्रतिरूपं तु महर्षेस्तस्य राघवः। विलपन्नेव धर्मात्मा कौसल्या पुनरब्रवीत् ॥१॥ तदज्ञानान्महत्पापं कृत्वाह सङ्कलेन्द्रियः । एकस्त्वचिन्तयं बुद्धया कथं नु सुकृतं भवेत् ॥२॥ ततस्तं घटमादाय पूर्ण परमवारिणा । आश्रम तमहं प्राप्य यथाख्यातपथं गतः ॥३॥ तत्राहं दुर्बलावन्धौ वृद्धावपरिणायको । अपश्यं तस्य पितरौ लूनपक्षा विव द्विजौ ॥४॥ तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ। तामाशा मत्कृते हीनावुदासीनावनाथवत् ॥ ५॥ शोकोपहतचित्तश्च भयसन्त्रस्तचेतनः। तच्चाश्रमपदं गत्वा भूयः शोकमहं गतः॥६॥ पदशब्दं तु मे श्रुत्वा मुनि वाक्यमभाषत । किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय ॥७॥ श्रेयस्करमिति निश्चयानन्तरम् । यथाख्यातपथं प्राप्य आश्रमं गत इति सम्बन्धः ॥३॥ तत्रेत्यादि । परितो नयति संचारयतीति परिणायकः । तदहिती तन्निमित्ताभिः पुत्रविषयाभिः कथाभिः उपलक्षितौ । अपरिक्रमा पडुभूतौ । मत्कृते मन्निमित्तं तामाशा हीनी जलानयनाशारहितौ पुत्र विषयाशारहितौ वा । उदासीनो प्रयत्नशून्यौ। तस्य पितरावपश्यमिति सम्बन्धः॥४॥५॥शोकोपहतचित्त इति । पुत्रवधेन पूर्वमेव शोकोपड़त चित्तः भूयः शोकं गतः तद्दर्शनादतिशयितशोकं गतः॥६॥ पदशब्दमिति । पदशब्दं चरणविन्यासजशब्दम् । चिरायसि विलम्बसे " तत्करोति" वधमिति । वधं प्रलपन कौसल्यामिदमब्रवीदिति सम्बन्धः ॥१॥ तदिति । भवेदित्यत्रेतिकरणं द्रष्टव्यम् । अचिन्तयम् अस्य वधज्ञापनाज्ञापनयोः किं शुभोदर्क भवेदित्यचिन्तयमित्यर्थः ॥ २॥ ततस्तमिति । ततः मुनिकुमारोक्तज्ञापनमेव श्रेयस्करमिति निश्चयानन्तरम् । यथाख्यातपर्य मुनिकुमारोपदिष्टमार्ग प्राप्य आश्रम गत इत्यन्वयः, उत्तरलोकेनेकवाक्यं वा । यथारुयातपथं गतः सन् आश्रमं प्राप्य तत्र वृद्धावपश्यमिति सम्बन्धः । परितोनयतीति परिणायकः तदहिती, तनिमित्ताभिः पुत्रविषयाभिः कथाभिरुपलक्षितो अपरिक्रमा सञ्चाराक्षमौ । मत्कृते मत्रिमित्तम् । तामाशाम् । हीनो पुत्रविषयाशारहितौ । उदासीनो प्रयत्नशून्पो तस्प पितरावपश्यमिति सम्बन्धः ॥३-६॥ पदशब्दमिति । किं चिरायसि बिलम्बसे ॥७॥
For Private And Personal Use Only