SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie टी.अ.कां. तस्य ॥४७॥ ताम्यमान इति । क्षयं गतः नाशं प्राप्तुमुपकान्तः ॥४८॥ संस्तभ्येत्यादिश्वोकदयस्य इति मामुवाचेत्यनेनान्वयः । स्थिरचित्तो भवा म्यहमित्यत्र स्थिरचित्तो भवानपेति च पाठः । शूद्रायां वैश्येन जातःकरण इत्यर्थः । “शूद्राविशोस्तु करणः" इत्यमरः ॥१९॥५०॥ इतीति। विघूर्णतः । ताम्यमानः स मां कृच्छ्रादुवाच परमार्तवत् । सीदमानो विवृत्तानो वेष्टमानो गतः क्षयम् ॥४८॥ संस्तभ्य शोकं धैर्येण स्थिरचित्तो भवाम्यहम् । ब्रह्महत्याकृतं पापं हृदयादपनीयताम् ॥ ४९॥ न द्विजातिरहं राजन् माभूत्ते मनसो व्यथा। शूद्रायामस्मि वैश्येन जातो जनपदाधिप॥५०॥ इतीव वदतः कृच्छ्राद्वाणाभिहतमर्मणः। विघूर्णतो विचेष्टस्य वेपमानस्य भूतले॥५१॥ तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम् । स मामुदीक्ष्य सन्त्रस्तो जहाँ प्राणांस्तपोधनः ॥५२॥ जलार्द्रगात्रंतु विलप्य कृच्छ्रान्मर्मवणं सन्ततमुच्छसन्तम् । ततः सरय्वां तमहं शयानं समीक्ष्य भद्रेऽस्मि भृशं विषण्णः॥५३॥ इत्यार्षे श्रीरामायणेवाल्मी० श्रीमदयोध्याकाण्डे त्रिषष्टितमः सर्गः॥६३॥ कदाचिदतीव वेपमानस्येत्यर्थः । विचेष्टस्य कदाचिदिति शेषः। वेपमानस्य कदाचिदीपत्कम्पमानस्येत्यर्थः । आनम्यमानस्य व्यथया सङ्कचिताङ्गस्ये। त्यर्थः । नानद्यमानस्येति पाठे-अतिशयेन नदत इत्यर्थः । उद्धरम् उदहरम् । अडभावोऽनित्यत्वात् ॥५१॥५२॥ जलाईगात्रमिति । अयं श्लोकः प्रथमदृष्टानुवादः । मर्मणि प्राणस्थाने व्रणः यस्य तम् । सरवां सरयूतीरे । विषण्णोस्मि विषण्णोऽभवम् ॥५३॥ इति श्रीगोविन्दराजविरचिते श्रीरामा । यणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिषष्टितमः सर्गः ॥ ६२ ॥ ॥२०६॥ ताम्यमान इति । ताम्पमानः ग्लानिं प्राप्यमानः परमार्तवत् परमार्तियुक्तः ॥४८॥ संस्तभ्येति । धैर्येण शोक संस्तभ्य स्थिरचित्तो जवामि, मम चित्तमोहो नास्तीत्यर्थः । अतः ब्रह्महत्याकृतं ब्रह्महत्पया प्राप्तं पापम् ॥ ४९ ॥ न द्विजातिरिति । शदायां वैश्येन जातः करणः । “शद्राविशोस्तु करणः" इत्यमरः ॥ ५०॥ इतीवेत्यादिसायलोकमेकं वाक्यम् । आनम्पमानस्य व्यथया सङ्कुचिताङ्गस्येत्यर्थः । उद्धरम् अढभाव आपः ॥५१॥ ५२ ॥ जलाईगात्रमित्ययं श्लोकः प्रथम दृष्टावस्थानुवादकमिति मन्तव्यम् ॥ ५३॥ इति श्रीमहेश्वरतीयविरचिताय श्रीरामायणतत्त्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायो विषष्टितमः सर्गः॥ ६३॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy