________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
व्याकुलचित्तम् ॥३७॥ किं तवेति । जिहीर्षुः आहर्तुमिच्छुः । गुर्वर्थ मातापितृनिमित्तम् ॥ ३८॥ ३९ ॥ ताविति । आशाकृतां पुत्रो मे जलमाहरिष्यती। त्याशासहिताम् । तृष्णां पिपासाम् । कष्टां दुःसहाम् ॥४०॥ न नूनमिति । तपसः श्रुतस्य वेत्यत्र मामकस्येति विशेषणं देयम् ॥ ११ ॥ जानन्निति
किं तवापकृतं राजन् वने निवसता मया। जिहीर्घरम्भो गुर्वथै यदहं ताडितस्त्वया ॥ ३८ ॥ एकेन खलु बाणेन मर्मण्यभिहते मयि । द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥ ३९॥ तौ कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपा सितौ । चिरमाशाकृतां तृष्णां कष्टां सन्धारयिष्यतः ॥ ४०॥ न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा । पिता यन्मां न जानाति शयानं पतितं भुवि ॥४१॥ जान्ननपि च किं कुर्यादशक्तिरपरिक्रमः । भिद्यमानमिवाशक्त खातुमन्यो नगो नगम् ॥४२॥ पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव । न त्वामनुदहेत् क्रुद्धोवनं वह्निरिवैधितः ॥४३॥ इयमेकपदी राजन यतो मे पितुराश्रमः । तं प्रसादय गत्वा त्वं न त्वां स कुपितःशपेत् ॥४४॥ विशल्यं कुरु मां राजन् मर्म मे निशितः शरः।रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा ॥४५॥ सशल्यः क्लिश्यते प्राणे विशल्यो विनशिष्यति । इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥४६॥ दुःखितस्य च दीनस्य मम शोकातुरस्य
च । लक्षयामास हृदये चिन्तां मुनिसुतस्तदा ॥ ४७॥ अपरिक्रमः असञ्चारः, पङ्गुरिति यावत् । भिद्यमानं वातादिनेति शेषः॥ ४२ ॥ पितुरिति । राघवेतिसंबोधनात सरयूतीरे बहुशो मृगयापर्यटनेन पूर्व मेव दशरथं ज्ञातवानित्यवगम्यते । न त्वामनुदहेदिति अन्यथा दहेदिति भावः ॥ ४३ ।। इयमिति । एकपदी एकपदन्यासमात्रयुक्ता सरणिरित्यर्थः । "वर्तन्येकपदी" इत्यमरः । यतः यत्रैकपद्याम् ॥४४॥ विशल्यमिति । मर्म रुणद्धि पीडयतीत्यर्थः। मृदु सिकतामयम् । सोत्सेधम् औन्नत्यवत् । अम्बु रयः नदीवेगः ॥४५॥४६॥ दुःखितस्येति । दुःखितस्य महदकृत्यं प्राप्तमिति दुःखितस्य । शोकातुरस्य ब्रह्महत्या भविष्यतीति भिया शोकेन पीडि ताविति । आशाकृतां जलमानेष्यतीत्याशासहितां तृष्णां पिपासाम् ॥ ४०॥४१॥ जानन्निति । अपरिक्रमः सञ्चाराक्षमः ॥ ४२ ॥ पितुरिति । वनं वद्विरिति वैषम्यदृष्टान्तः ॥ ४३ ॥ इयमिति । एकपदी सरणिः ॥ ४४ ॥ विशल्यमिति । सोत्सेधम् उन्नतसहितं मृदु तीरं रुणद्धि पीडयति ॥ ४५-४७ ॥
For Private And Personal Use Only