________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू. ॥२०५॥
.अ.का. ।
तल्पगं गुरुदारगम् । “तल्पं शय्यादृदारेषु" इत्यमरः ॥२९-३३ ॥ हत इत्येतन्मातापितरावित्यत्र वचनविपरिणामेन योजनीयम् । सर्वे निहता इत्यु क्तिर्मातापितॄजीवनहेतुभूतस्य स्वस्य वधात् । अकृतात्मना अनिश्चितबुद्धिना। इति वागभूदिति पूर्वेणान्वयः ॥३२॥ तामिति । सशरं चापमित्यनेन
नाहं तथानुशोचामि जीवितक्षयमात्मनः । मातरं पितरं चोभावनुशोचामि मद्धे ॥ ३० ॥ तदेतन्मिथुनं वृद्धं चिरकालभृतं मया। मयि पञ्चत्वमापन्ने का वृत्ति वर्तयिष्यति ॥ ३१॥ वृद्धौ च मातापितरावहं चैकेषुणा हतः । केन स्म निहताः सर्वे सुबालेनाकृतात्मना ॥ ३२ ॥ तां गिरं करुणां श्रुत्वा मम धर्मानुकांक्षिणः । कराभ्यां सशरं चापं व्यथितस्यापतद्धवि ॥३३॥ तस्याहं करुणं श्रुत्वा निशि लालपतो बहु । सम्भ्रान्तः शोकवेगेन भृशमासं विचेतनः ॥३४॥ तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः । अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् ॥ ३५॥ अवकीर्णजटाभारं प्रविद्धकलशोदकम् । पांसुशोणितदिग्धाङ्गं शयानं शल्यपीडितम् ॥ ३६॥ स मामुद्रीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम् । इत्युवाच ततः क्रूरं दिधक्षन्निव तेजसा ॥ ३७॥ शरे मुक्तेपि हस्तलाघवाच्छरान्तरं धनुषि संहितवानित्यवगम्यते । करुणां गिरं श्रुत्वा करुणाजनकं वचः श्रुत्वा, स्थितस्येति शेषः॥३॥ तस्येति । लालपत इति यङ्लुगन्ताच्छतृप्रत्ययः। प्रलपत इत्यर्थः । विलपनमित्यसिद्धम् ॥३४॥ तमिति । दीनसत्त्वः दीनदयः। सुदुर्मनाः अत्यन्तदुःखित मनाः । प्रविद्धकलशोदकं पर्यस्तकलशोदकमित्यर्थः । नतु ध्वस्तकलशोदकमिति । "ततस्तं घटमादाय पूर्ण परमवारिणा" इति वक्ष्यमाणविरोधात् । पांसुशोणितदिग्धाङ्गं पांसुविशिष्टशोणितेन लिप्ताङ्गम् । शल्यपीडितं शरायपीडितम् ॥३५॥३६॥ स मामुदीक्ष्यति । त्रस्तं भीतम् अतएवास्वस्थचेतसं वृद्धाविति । हत इत्येतत् मातापितराषित्यत्र वचनविपरिणामेन योजनीयम् । सर्वे निहता इत्युक्तिः मातृपितजीवनहेतुभूतम्य स्वस्य वधात ॥ ३२ ॥ ३३ ॥ तस्येति । करुणं श्रुत्वा करुणजनकं वचः श्रुत्वेत्यर्थः ।। ३४ ॥ ३५ ॥ अवकीर्णेति । प्रविद्धकलशोदकं पर्यस्तकलशोदकम् ॥ ३५-२९ ।।
కాగా
७
॥२०५॥
For Private And Personal Use Only