SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृतसङ्कल्प इत्यर्थः । निपीयते अस्मिन्निति निपानम् नद्यवतारस्थ ं तस्मिन् । श्वापदं व्याघ्रादिदुष्टमृगम् ॥ २० ॥ २१ ॥ अथान्धकार इति पूर्यत इति शत्रन्तत्वमार्षम् ॥ २२ ॥ ततोऽहमिति । गजप्रेप्सुः गजरूपवेध्यं प्राप्तुमिच्छुः, इननेच्छुरित्यर्थः । शब्दंप्रति शब्दं लक्ष्यं कृत्वा । अथान्धकारे त्वali जले कुम्भस्य पूर्यतः । अचक्षुर्विषये घोषं वारणस्येव नर्दतः ॥ २२ ॥ ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम् । शब्दं प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ॥ २३ ॥ अमुञ्चं निशितं बाणमहमाशीविषो पम्म् । तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः । हाहेति पततस्तोये बाणाभिहतमर्मणः ॥ २४ ॥ तस्मिन्निपतिते वाणे वागभूत्तत्र मानुषी । कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि ॥ २५ ॥ प्रविविक्तां नदीं रात्रावदाहारोऽह मागतः । इषुणाभिहतः केन कस्य वा किं कृतं मया ॥ २६ ॥ ऋषेर्हि न्यस्तदण्डस्य वने वन्येन जीवतः । कथं नु शस्त्रेण वधो मद्विधस्य विधीयते ॥ २७ ॥ जटाभारधरस्यैव वल्कलाजिनवाससः । को वधेन ममार्थी स्यात् किं वास्यापकृतं मया ॥ २८ ॥ एवं निष्फलमारब्धं केवलानर्थसंहितम् । न कश्चित् साधु मन्येत यथैव गुरुतल्पगम् ॥ २९ ॥ अभिलक्ष्य शब्दकर्तृभूतो गज एतावन्मात्रे तिष्ठतीति लक्षीकृत्येत्यर्थः, शरमपातयमितिसम्बन्धः ॥ २३ ॥ अमुञ्चमिति । यत्र बाणममुञ्चं तत्र वनौकसः वनम् ओकः स्थानं यस्य तस्य, तपस्विन इतियावत् । व्यक्ता वाक् प्रादुरासीदिति सम्बन्धः ॥ २४ ॥ विशिष्यवागुदितेत्याह - तस्मिन्नित्यादि अस्मद्विधे अजातशत्रौ । प्रविविक्तां प्रकर्षेण निर्जनाम् । रात्रौ अपररात्रौ । उदकमाहारयतीत्युदाहारः “ मन्थोदन - " इत्यादिना उदकशब्दस्योदा देशः । यद्यपि हारशब्दे परे उदादेशो विहितः तथापि " एकदेश विकृतमनन्यवद्भवति" इति दीर्घः छान्दसो वा । किंकृतं किमनिष्टं कृतम् ॥ २५ ॥ २६ ॥ न्यस्तदण्डस्य उपरतवाङ्मनः कायसम्बन्धिपरहिंसस्य । “दण्डोऽस्त्री शासने राज्ञां हिंसायां दमसैन्ययोः" इतिविश्व । अर्थी प्रयोजनवान् ||२७||२८|गुरु अवतीर्य जलपानयोग्यप्रदेश इति यावत् । श्वापदं व्याघ्रादिकम् ॥ २१ ॥ अथेति । पूर्यतः शत्रन्तत्वमार्षम् ॥ २२ ॥ तत इति । गजप्रेप्सुः गजं प्राप्तुमिच्छुः हनने च्छुरित्यर्थः । शब्दं प्रति शब्दं लक्ष्यम् कृत्वा अभिलक्ष्य, लक्ष्यं गजमभिमुखीभूय शरमपातयमिति सम्बन्धः ॥ २३ ॥ अमुखमिति । यत्र बाणममुखं तत्र वनौकसस्तपस्विनः । व्यक्ता वाक् प्रादुरासीदिति सम्बन्धः ॥ २४ ॥ कथमिति । अस्मद्विधे अजातशत्रौ ॥ २५ ॥ प्रविविक्तां निर्जनाम् । अपररात्रौ उदकमाह रतीत्युदाहारः ॥ २६ ॥ न्यस्तण्डस्य त्यक्तपरपीडस्य ॥ २७ ॥ २८ ॥ एवमिति । गुरुतल्पगं गुरुदारगम् ॥ २९-३१ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy