________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
www.kabatirth.org
चा.रा.भ.
.अ.को.
स.
रूपाल्पफलं पुत्रवियोगरूपमहाफलहानिकरं मृगयाकर्म कुर्वन्त्रहमज्ञ एवास्मीतिभावः ॥७॥ फलतारतम्यविचारमन्तरेण कर्मणि प्रवृत्तस्योक्तं बालि शत्वं दृष्टान्तमुखेन विवृणोति-कश्चिदिति । लोके कश्चित्पुरुषः पुष्पं दृष्ट्वा फले गृभुः साभिलाषः सन् अधिकवर्णमहापुष्पवत्त्वात् तदनुगुणमहाफलं
कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति । पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥८॥ अविज्ञाय फलं यो हि कर्मत्वेवानुधावति । स शोचेत् फलवेलायां यथा किंशुकसेचकः॥९॥ सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम् । रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः ॥ १०॥ लब्धशन्देन कौसल्ये कुमारेण धनुष्मता ।
कुमारः शब्दवेधीति मया पापमिदं कृतम् ॥ ११॥ Mभविष्यतीति साभिलाष इत्यर्थः । आम्रवणं चूतवनम् । अल्पनिर्वर्णपुष्पकम् । छित्त्वा पलाशोपरोधपरिहारार्थ छित्त्वा । पलाशांश्च किंशुकानेव निषिञ्चति ।
जलसेचनादिना पोषयति सः फलागमे फलप्राप्तिकाले सति । अनुपभोग्यफलदर्शनात् शोचति ॥ ८॥ दृष्टान्तोक्तं दार्शन्तिके दर्शयति-अविज्ञायेति । भाविफलमविज्ञाय कर्मत्वेवानुधावति कर्मवानुसरति तदनुकूलहिंसां तु न पश्यतीत्यर्थः ॥ ९॥ एवं सदृष्टान्तमुक्तस्य प्रकृतोपयोगं दर्शयतिसोइमिति । आम्रवणच्छेदनपूर्वकपलाशसेचकतुल्योहमित्यर्थः । आम्रवणं छित्त्वेत्यनेन अभिषेकविधातपूर्वकरामविवासनं लक्ष्यते । पलाशांश्च न्यपेचयामित्यनेन कैकेयीप्रियकरणं लक्ष्यते ॥१०॥ एतदुःखानुभवस्य निदानं वक्तुमुपक्रमते-लग्यशब्देनेति । कुमारः शब्दवेधीति लब्ध स बाल इत्युच्यते ॥ ७॥ बालिशत्वमेव दृष्टान्तमुखेनाह-कश्चिदित्यादिना । आम्रवणं चूतवनं छित्त्वा सूक्ष्मतरपुष्पं चूतवनविसुक्ष्मतरफलमेव जनयेदिति । भ्रान्त्या छित्त्वेत्यर्थः । पुष्पं दृष्ट्वा वर्णेन आपातरमणीयं पृथुतरं पुष्पं दृष्ट्वा । फलेपनुः एतदनुरूपं महत्फलं भविष्यतीति फललिप्सुस्सन । पलाशानिषिश्चति पलाश तरुरोपणं कृत्वा तेषां जलं निषिक्षतीत्यर्थः। स पलागमे अनुभोगप्राप्तिसमये अनुशोचति पश्चात्तप्यति स्वोत्प्रेक्षितफलाभावादिति भावः॥८॥ अविज्ञायेति । यः फलं भाविफलम् अविज्ञाय अविचार्य, कर्मत्वेव कर्मैव तु अनुधावति अनुतिष्ठति । यः फलवेलायां फलानुभवकाले शोचेत् तप्येदित्यर्थः ॥२॥ सामान्ये नोक्तमर्थ स्वात्मन्यविचार्यकारिणि विशेषेण योजयति-सोऽहमिति । आम्रवणशब्देन शुभकर्मोपलक्ष्यते, पलाशशब्देनाशुभकर्म, आम्रवर्ण छित्त्वा रामाभिषेकरूपं शुभकर्म त्यक्त्वेत्यर्थः । पलाशचि न्यषेचयम् दुखरूपमागामिफलमनपेक्ष्य कैकेयीप्रियकरणरूपमशुभं कर्माचरम्तस्याशुभकर्मणः फलागमे फलानुभवकाले राम त्यक्त्वा अशुभकर्मफलत्वेन रामवियोग प्राप्य पश्चाच्छोचामि, रामत्यागरूपफलमनुभूय शोचामीत्यर्थः ॥ १०॥ एतदुखानुभवस्य निदानं वक्तुमुपक्रमते
"
For Private And Personal Use Only