________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
॥7॥ प्रतिबद्ध इत्यादि ॥१॥रामलक्ष्मणयोरिति । रामलक्ष्मणयोर्विवासात् उपसर्गः महोपद्रवः पुत्रशोकरूपः । आसुरम् असुरसम्बन्धि तमः राहुः ॥२॥ सभार्य इति । विवक्षुः, अभूदितिशेषः। असितापाङ्गामित्यनेन निवृत्तकोधत्वमुक्तम् ॥३॥ स राजेति । रजनीमिति सप्तम्यर्थे द्वितीया। षष्ठी रजनी,प्राप्येति
प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः। अथ राजा दशरथः स चिन्तामभ्यपद्यत ॥१॥रामलक्ष्मणयोश्चैव विवासा द्वासवोपमम् । आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् ॥२॥ सभार्ये निर्गते रामे कौसल्यां कोसलेश्वरः। विवक्षु रसितापाङ्गां स्मृत्वा दुष्कृतमात्मनः ॥ ३॥ स राजा रजनी षष्ठी रामे प्रवाजिते वनम् । अर्धरात्रे दशरथः संस्मरन दुष्कृतं कृतम् ॥ ४॥ स राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः । कौसल्या पुत्रशोकातामिदं वचन मब्रवीत् ॥ ५॥ यदाचरति कल्याणि शुभं वा यदि वाऽशुभम् । तदेव लभते भद्रे कर्ता कर्मजमात्मनः ॥६॥ गुरुलाघवमर्थानामारम्भे कर्मणां फलम् । दोषं वा यो न जानाति स बाल इति होच्यते ॥ ७ ॥ शेषो वा । संस्मरन् स्थित इति शेषः॥ ४॥५॥स्मृतमात्मदुष्कृतं वक्तुं तदनुकूला लोकस्थिति दर्शयति-यदिति । कल्याणीति सान्त्वोक्तिः। लोके पुरुषःशुभ वा अशुभं वा यदाचरति परस्य कर्मजं परशुभाशुभप्रापकपुण्यापुण्यात्मककर्मजम्, तदेव शुभ वा अशुभं वा फलम् आत्मनोपि लभते । तथाच ऋषेः पुत्रवियोगकरणेन ममापि पुत्रवियोगःप्राप्त इति भावः ॥ ६ ॥ अन्यामपि लोकस्थितिमाह-गुरुलाघवमिति । कर्मणामारम्भे आरम्भ समये । अर्थानां फलाना गुरुलाघवं गुरुत्वं लघुत्वं च फलं दोष वा फलं फलहानि वा । यद्वा सुखरूपता दुःखरूपतां वा । यो न जानाति सःबालः अज्ञ इत्युच्यते । अल्पफलकं बहुकर्मनिष्फलं च कारभमाणो बुद्धिहीनः बहुफलकमल्पं कर्म सफलं कर्म चारभमाणः सुबुद्धिरित्यर्थः । तथाचात्मविनोद
१॥ रामेति । रामलक्ष्मणयोर्विषासादुपसर्गः तं विवेश, पुत्रशोकरूपमहोपद्रवः दशरथ विवेशेत्यर्थः । आसुर तमः राहुः॥२॥ सभार्य इति । विवक्षुः अभू दिति शेषः ॥ ३ ॥ स इति । षष्ठी षष्ठयामित्यर्थः। संस्मरन् स्थित इति शेषः ॥४॥५॥ यदिति । तदेव कर्मजं दोषकोत्पन्नं फलम् ॥ ६॥ गुर्विति । कर्मणामारम्भे समारम्भसमये । अर्थानां फलाना गुरुलाघवं गुरुत्वं लघुत्वं च, तेषामेवार्थानां फलं सुखरूपत्वम् । दोष वा दुःखत्वं च यो न विजानाति स-गुरु गौरनम् । अर्थानां पुरुषार्थसाधकानाम् । कर्मणामारम्भे फलं प्रति साधनेषु गौरवं लाघवं च तथा दोषम् । वाशब्दाद्गुणसंग्रहः । अर्थानां साधनानामिति वा ॥ ७ ॥
For Private And Personal Use Only