________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥२०२॥
www.kobatirth.org
यमुनातीर चित्रकूटेषु चतस्रो रात्रयः चतुर्थ्या सुमन्त्रस्य निर्गमः पञ्चम्यामिदं वचनमिति, एवंसत्यद्य पदस्वारस्यमिति । ननु सप्तपञ्चाशे सर्गे “भरद्वाजाभि गमनं प्रयागे च सहासनम् । आगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् । अनुज्ञातः सुमन्त्रोय योजयित्वा हयोत्तमान् ॥” इत्याद्यनन्तरं “ ततः सायाह्नसमये
तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्द्धते । नदीनामिव वेगेन समुद्रसलिलं महत् ॥ १८ ॥ एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः । मन्दरश्मिरभूत सूर्यो रजनी चाभ्यवर्तत ॥ १९ ॥ तथा प्रसादितो वाक्यैर्देव्या कौसल्या नृपः । शोकेन च समाक्रान्तो निद्राया वशमेयिवान् ॥ २० ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयेऽहनि सारथिः । अयोध्यां समनुप्राप्य निरानन्दां ददर्श ॥" इत्युक्त्या अयोध्यानिर्गमदिवसमारभ्य षष्ठेऽहनि किल रामस्य चित्रकूटप्रवेशः अथ चारेभ्यः सप्तमे अष्टमे वा सुतस्य तद्वृत्तान्तश्रवणं ततस्तृतीयेहनि सूतस्यायोध्याप्रवेशः तत्कथं पञ्चरात्रय इति परिगण्यते ? उच्यते - तृतीयेऽहनीत्यत्र | अह्नस्तृतीयभाग इत्यर्थः । आगिरेर्गमनमित्यत्र गमनोद्योगमित्यर्थः । तथाच “गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान् बहून् । आशया यदि मां रामः पुनःशब्दापयेदिति " इत्यत्र बहूनित्युक्त्या दिनत्रयं शृङ्गवेरपुरे सूतस्य वासः । चतुर्थे दिने ऋजुमार्गेण दिवारात्रमागत चारमुखात् रामस्य चित्रकूट | प्रवेशोद्योगं निशम्य तद्दिवससायंकाले वेगेनायोध्याप्रवेशः, तस्मिन् दिने कौसल्याह पञ्चवरात्रोद्यगण्यत इति, अतो न किंचिदनुपपन्नम् ॥ १७ ॥ तमिति । नदीवेगेन समुद्धिरिति लोकवादः ॥ १८ ॥ एवमिति । कथयन्त्याः कथयन्त्यामित्यर्थः । शुभं वचः अतिदुःखितावस्थायामपि पत्यनुनयपरत्वात् वचसः शुभत्वम् ॥ १९ ॥ २० ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बरारूपाने अयोध्याकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२ ॥
| एवमिति । कथयन्त्यां सत्यामित्यर्थः । शुभं वचः अतिदुःखितायामपि पत्यनुनयपरत्वाद्वचसः शुभत्वम् ॥ १९ ॥ २० ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामा यणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ ६२ ॥
सः समुद्रसलिलं समुद्रद्वारि विद्यमानम् । यथोक्तं गीतामाध्ये" अस्ति चेषःसमुद्रेपि द्वार इत्यादि ॥ १८ ॥
For Private And Personal Use Only
टी.अ.का. स० ६२
॥ २०२॥