SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा. भू ॥२०१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin स० ६२ विश्लेषजं मददुःखमनु भवामि। एतद्धेतुभूतं किं कर्म कृतमिति पुनश्चिन्तां प्राप्तवानित्यर्थः ॥ ३॥ तस्येति । दुष्कृतं कर्म मुनिकुमारवधरूपं कर्म प्रत्यभात् टी.अ.कॉ. प्रतीतमभूत् । शब्दवेधिना शब्देन लक्ष्येण वेद्धुं शीलमस्यास्तीति शब्दवेधी, राजा बाणो वा ||४|| अमना इति । अमनाः अस्वस्थचित्तः, क्षुभितान्तःतस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् । यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना ॥ ४ ॥ अमनास्तेन शोकेन रामशोकेन च प्रभुः । द्वाभ्यामपि महाराजः शोकाभ्यामन्वतप्यत ॥ ५ ॥ दह्यमानः स शोकाभ्यां कौसल्यामाह भूपतिः । वेपमानोऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः ॥ ६ ॥ प्रसादये त्वां कौसल्ये रचितोऽयं भयाञ्जलिः । वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ॥ ७ ॥ भर्त्ता तु खलु नारीणां गुणवान्निर्गुणोपि वा । धर्मे विमृशमानानां प्रत्यक्षं देवि दैवतम् ॥ ८ ॥ सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा । नाईसे विप्रियं वक्तुं दुःखितापि सुदुःखितम् ॥ ९ ॥ तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् । कौसल्या व्यसृजद्वाष्पं प्रणालीव नवोदकम् ॥ १० ॥ सा मूर्ध्नि बध्वा रुदती राज्ञः पद्ममिवाञ्जलिम् । सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः ॥ ११ ॥ करण इत्यर्थः । तेन मुनिकुमारवधजनितेन ॥ ५ ॥ दह्यमान इति । अवाङ्मुखः अवनतमुखः स्वकृत कौसल्याविषयाप्रियजन्यया लज्जया भीत्या चेति भावः ॥ ६॥ प्रसादय इति । परेष्वपि प्रतिकूलेष्वपि ॥ ७॥ ८॥ सा त्वमिति । दृष्टलोकपरावरा दृष्टौ लोके जने परावरौ उत्कर्षापकर्षों यया सा तथोक्ता । सुदुःखितं मां प्रतीतिशेषः ॥ ९ ॥ तद्वाक्यमिति । प्रणाली प्रासादादिषु दार्वादिनिर्मितजलनिर्गममार्गः । " द्वयोः प्रणाली पयसः पदव्याम्" इत्यमरः । नवोदकं वर्षजलम् ॥ १० ॥ सेति । राज्ञः अञ्जलिं पद्ममिव मूर्ध्नि बच्वा पाणिभ्यां गृहीत्वा । मूर्ध्नि बद्धेत्यर्थः । त्रस्ता धर्माद्भीता ॥ ११ ॥ मनुभवामि, एतद्धेतुभूतं किं कर्म कृतमिति पुनचिन्तामापेत्यर्थः ॥ ३ ॥ तस्येति । प्रत्यभात् प्रतीतमभूत् । दुष्कृतं कर्म मुनिकुमारवधरूपं कर्म । शब्दवेधिना शब्देन लक्ष्येण वेद्धुं शीलमस्यास्तीति शब्दवेधी तेन ॥ ४ ॥ अमना इति । अमनाः क्षुभितान्तःकरणः । तेन मुनिकुमारवधरूपेण शोकेन ॥ ५ ॥ ६ ॥ प्रसादय इति । परेष्वपि प्रतिकूलेष्वपि ॥ ७ ॥ ८ ॥ सा त्वमिति । दृष्टलोकपरावरा दृष्टौ लोके जने पराबरी उत्कर्षापकर्षो यया सा ॥ ९ ॥ तदिति । प्रणाली जलनिर्गममार्गः । नवोदकम् ॥ १० ॥ सेति । राज्ञः अञ्जलिं पद्ममिव मूर्ध्नि बद्धा पाणिभ्यां गृहीत्वा मूर्ध्निबद्धेत्यर्थः ॥ ११ ॥ For Private And Personal Use Only ॥२०१॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy