________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
तनयो रक्षेन्न स्त्री स्वातन्त्र्यमईति ॥” इति ॥२४॥ तत्रेति । तत्र तासु गतिषु त्वं भर्ता न भवसि, सपत्नीपरतन्त्रत्वात् । मे ज्ञातिरपि नास्ति । दूरस्थत्वादितिभावः । न वनं गन्तुमिच्छामि सभर्तृकत्वात् । निहता अस्मीति शेषः ॥२५॥ रामानु०-तत्रेति । तत्र गतित्वेन परिगणितेषु त्वं मे नास्ति Lal अस्तीतिविभक्तिप्रतिरूपकमव्ययम् । मे नास्तीतिपाठः सम्यक् ॥ २५ ॥ न केवलमहमेका हता अन्येपीत्याह-हतमिति । राज्यं कोसलराज्यम् । राष्ट्राणि अन्यानि तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः । न वनं गन्तुमिच्छामि सर्वथा निहता त्वया ॥२५॥ हतं त्वया राज्यमिदं सराष्ट्रहतस्तथात्मा सह मन्त्रिभिश्च । हता सपुत्रास्मि हताश्च पौराः सुतश्च भार्या च तव प्रहृष्टौ ॥२६॥ इमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दुःखितः। ततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदा स्मरन् ॥ २७ ॥ इत्याचे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥ एवं तुक्रुद्धया राजा राममात्रा सशोकया। श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः ॥ १॥ चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः। अथ दीर्षण कालेन संज्ञामाप परन्तपः ॥२॥स संज्ञामुपलभ्यैव दीर्घमुष्णञ्च निश्वसन । कौसल्या पार्श्वतो दृष्ट्वा पुनश्चिन्तामुपागमत् ॥३॥ त्वन्मित्रपालितानि । सुतः भरतः। तत्रैव तव सुताभिमानात् । भार्या कैकेयी, तद्वचनकरणात् ॥२६॥ इमामिति । प्रविवेश तत्र मन इत्यर्थः । दुष्कृतं स्मरन् एतादृशदुःखस्य निदानभूतं किं कर्म पूर्व कृतमिति स्मरन्नित्यर्थः ॥२७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकषष्टितमः॥ ६१ ॥ एवमिति । चिन्तयामास अनया सत्यमेव कथितम् मया चान्यैरकृतपूर्व महदकृत्यं कृतं किमतः परं करोमीति चिन्तयामासेत्यर्थः॥ १॥२॥ स संज्ञामिति । पुनश्चिन्तामुपागमत् "अत्युत्कटैः पुण्यपापरिहव फलमश्नुते" इतिन्यायेन प्रियपुत्र पासनातनो धर्मस्ते पुढे यदि न स्यात् तीधर्मनिरते तस्मिन् त्वया विवासिते तद्यक्तं भवेत् न चैवमिति भावः ॥२३॥२४॥ तत्रेति । तत्र गतित्वे परिगणितेषु त्वं
मे नास्ति ॥२५॥२६॥ इमामिति । स्वदुष्कृतम् अस्मरत एतादृशदुःखस्य निदानभूतं किं दुष्कृतं पूर्व कृतमिति सस्मारेत्यर्थः ॥२७॥ इति श्रीमहेश्वर श्रीरामायण अयोध्याकाण्डव्याख्यायां एकषष्टितमः सर्गः ॥ ६१ ॥ एवमिति । चिन्तयामास अनया कथितं सर्व सत्यमेव । अन्पैरकृतपूर्वम् अकृत्यं मया कृतमिति हदि विचारयामासेत्यर्थः ॥ १ ॥२॥ स इति । पुनश्चिन्तामुपागमत् “अत्युत्कटः पुण्यपापैरिहैव फलमश्नुते " इति न्यायेन प्रियपुत्रविश्लेषजं महदुःख
For Private And Personal Use Only