SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥ २००॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदक्षमतायां यथान्यो नाभिलपति तद्वदित्यर्थः ॥ १८ ॥ नैवंविधमिति । वालधेः पुच्छस्य अवमर्शनम् अवमत्यस्पर्शनम् ॥ १९ ॥ ननु वयं किं कुर्मः पौरुषधर्मबलाभ्यां दीनः स्वयमेव गत इत्यत्राह - नैतस्येति । सहिताः मिलिताः लोकाः चतुर्दशभुवनस्थाः सुरासुरादयः । महामृधे महायुद्धे । नैवंविधमसत्कारं राघवो मर्षयिष्यति । बलवानिव शार्दूलो वालधेरवमर्शनम् ॥ १९ ॥ नैतस्य सहिता लोका भयं कुर्युर्महामृधे । अधर्मी त्विह धर्मात्मा लोकं धर्मेण योजयेत् ॥ २० ॥ नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महा भुजः । युगान्त इव भूतानि सागरानपि निर्दहेत् ॥ २१ ॥ स तादृशः सिंहबलो वृषभाक्षो नरर्षभः । स्वयमेव हूतः पित्रा जलजेनात्मजो यथा ।। २२ ।। द्विजातिचरितो धर्मः शास्त्रदृष्टः सनातनः । यदि ते धर्मनिरते त्वया पुत्रे विवासिते ॥ २३ ॥ गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः । तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते ॥ २४ ॥ एतस्य रामस्य भयं न कुर्युः, भयं कर्तुं न शक्नुयुरित्यर्थः । किन्तु अधर्मम् अधर्ममार्गस्थं लोकं जनं धर्मेण योजयेत् । " चातुर्वर्ण्यञ्च लोकेऽस्मिन् स्वेस्वे धर्मे नियोक्ष्यति " इत्युक्तो रामः स्वयमधर्म कथं कुर्यादित्यर्थः ॥ २० ॥ नन्विति । युगान्तः युगान्तकालः । भूतानि पञ्चमहाभूतानि ॥ २१ ॥ स तादृश इति । तादृशः अवाङ्मनसगोचरूपराक्रमयुक्तः । जलजेन मत्स्येन । मत्स्यो ह्यात्मजानेव भक्षयतीति प्रसिद्धम् ॥ २२ ॥ इयता प्रबन्धेनोक्त मुपसंहरति-द्विजातिचरित इति । धर्मनिरते पुत्रे त्वया विवासिते सति । द्विजातिचरितः शिष्टत्रैवर्णिकाचरितः शास्त्रदृष्टः सनातनो धर्मः ते यदि अस्ति किमित्यर्थेऽव्ययमिदम् ॥ २३ ॥ एवं राजकृतानीत्या स्वहानिमाड़ - गतिरित्यादि । एका मुख्या, प्रथमेत्यर्थः । द्वितीया भर्त्रभावे गतिरित्यर्थः । ज्ञातयः पित्रादयः तृतीया भर्तृपुत्राभावे गतिरित्यर्थः । चतुर्थी स्वातन्त्र्यरूपा । तथाच स्मृतिः " पिता रक्षति कौमारे भर्ता रक्षति यौवने । वार्द्धके आत्तम् उपभुक्तपूर्वम् । हृतसारां गृहीतसाराम् । अभिमन्तुम् अभिलषितुम् ॥ १८ ॥ नैवमिति । बालधेः पुच्छस्य । अभिमर्शनम् अवमत्यस्पर्शनम् ॥ १९ ॥ नैतस्येति । सहिताः सङ्घीभूय वर्तमानाः, लोकाः चतुर्दशभुवनस्थसुरासुरादयः । भयं न कुर्युः भयं कर्तुं न शक्नुयुः । तर्ह्येतादृशो रामः किमर्थमाक्रम्य राज्यं न स्वीकृतवानित्याशङ्कय परिहरति-अधर्म त्विति । अधर्मम् अधर्ममार्गस्थम् लोकं जनं धर्मेण योजयेत, धर्मप्रवर्तको रामः राज्यापहरणरूपमधर्म कथं कुर्यादिति भावः ॥ २० ॥ रामे शक्तिशङ्का न कार्येत्याह-भन्वित्यादि श्लोकद्वयेन । युगान्तः युगान्तकालाग्निरिव । भूतानि पञ्चमहाभूतानि । सागरानपि निर्दहेत् ॥ २१ ॥ स इति । जलजेन मत्स्येन ॥ २२ ॥ द्विजातीति । धर्मनिरते पुत्रे त्वया विवासिते सति शास्त्रदृष्टः द्विजातिचरितः सनातनो धर्मः ते तब यदि स्यात् तद्विवासन युक्तः सोऽपि धर्मो न दृश्यत इति भावः । यद्वा नकारोऽत्राभ्याहर्तव्यः । तेधर्मनिरत इत्यत्र अधर्मनिरत इति छेदः । शास्त्रदृष्टो द्विजातिचरितो राजर्षिभिराचरित For Private And Personal Use Only टी.अ.कां. स० ६१ ॥ २००॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy