________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्विजर्षभाः ऋषभाः शृङ्गच्छेदमिव निजावमानहेतुं पश्चाद्भोकुमिच्छाम् अभ्युपैतुम् नालम्, न क्षमन्त इत्यर्थः । यद्वा शृङ्गमत्रं शृङ्गेच्छेदो यस्य तत् शृङ्ग च्छेदं छिन्नायं तृणम् । यथा वृषभा वृषभान्तरजग्धायं तृणं भोक्तुं नालम्, तद्वदित्यर्थः । शृङ्गच्छेदमिति वृषभभक्षिताग्रतृणनामेत्यप्याहुः ॥ १४ ॥ उक्तमर्थे
एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते । भ्राता ज्येष्ठो वरिष्षुश्च किमर्थे नावमंस्यते ॥ १५ ॥ न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति । एवमेव नरव्याघ्रः परलीढं न मन्यते ॥ १६ ॥ हविराज्यं पुरोडाशः कुशा यूपाश्च खादिराः । नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥ १७ ॥ तथा ह्यात्तमिदं राज्यं हृतसारी सुरामिव । नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् ॥ १८ ॥
Acharya Shri Kailassagarsuri Gyanmandin
दाष्टन्तिके योजयति- एवमित्यादिना । एवं पूर्वोक्तद्विजर्षभवत् । कनीयसा कनिष्ठेन। विशांपते हे प्रजानाथ ! वरिष्ठः गुणैः श्रेष्ठः । किमर्थ नावमंस्यते कस्मै प्रयोजनाय न तिरस्करिष्यति । सर्वात्मना तिरस्करिष्यत्येवेत्यर्थः॥ १५ ॥ न परेणेति । परेण अन्येन वृकगोमाय्वादिना आहृतं भक्षितशेषत्वेनानीतम् । परलीढं परेणास्वादितम् । परभुक्तशेषमिति यावत् । न मन्यते न बहुमन्यते ॥ १६ ॥ हविरिति । हविः चरुप्रमुखम्, पुरोडाशाः पिष्टादिविकाराः। खादिरा इत्येतत् पालाशादीनामुपलक्षणम् । यातयामानि परिभुक्तानि यागे विनियुक्तानीति यावत् । " जीर्णे च परिभुक्तं च यातयाममिदं द्वयम् ” इत्यमरः । अध्वरे यागान्तरे। पुनर्न कुर्वन्ति न विनियुञ्जते । “मन्त्राः कृष्णाजिनं दर्भाः" इत्याद्ययातयामत्वबोधकवचनेषु दर्भादिशब्दाः कुशादिव्यतिरिक्तपराः ॥१७॥ तथेति । आत्तम् उपभुक्तपूर्वम् । हृतसारां गृहीतसारांशाम् । अभिमन्तुम् अभिलषितुम् । नष्टसोममिवाध्वरमिति अन्येन सोमपाने कृते सत्ररूपमध्वरं एवमिति । एवं पूर्वोक्तद्विजर्षभवत् । किमर्थं नावमंस्यते, सर्वात्मना तिरस्करिष्यत्येवेत्यर्थः ॥ १५ ॥ नेति । परेण वृकादिना, आशितं भक्षितशेषत्वेन स्थापितं परलीढं परेण आस्वादितम्, परभुक्तमिति यावत् ।। १६ ।। हविरिति । हविः चरुप्रमुखम्। खादिरा इत्येतत् पालाशादीनामप्युपलक्षणम् । यातयामानि परि भुक्तानि यागे विनियुक्तानीति यावत् । " जीर्णे च परिभुक्तं च यातयाममिदं द्वयम् " इत्यमरः । अध्वरे यागान्तरे । पुनर्न कुर्वन्ति न विनियुञ्जते ॥ १७॥ तथेति ।
१ सोममिवाध्वरम् । न चेमां घर्षणां रामः संगच्छेदत्यमर्षणः । दारयेन्मन्दरमपि स हि क्रुद्धः शितैः शरैः ॥ त्वां नोत्सहते हन्तुं महात्मा पितृगौरवात् । ससोमार्कप्रहगणं नभस्ताराविचित्रितम् ॥ पानयेद्यो दिवं क्रुद्धः सत्वान्न व्यतिवर्तते । प्रक्षोभयेद्वारयेद्वा महीं शैलशताचिताम् ॥ इत्यधिकः पाठः ।
For Private And Personal Use Only