________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चा.रा.भू. ध्वंसनहेतुं कविरनुवदति-ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितमिति । ह्लादनमित्यनेनोपस्थितवचनस्य तापहेतुत्वं द्योत्यते । ननु कैकेयी निन्दा ॐ रूपत्वेऽपि देव्यास्तापकारणमवश्यं गोपनीयम् । कीदृशं तद्वाक्यं स्यात्किचिदिदमित्युक्तौ तत्र किं प्रमाणं स्यात् ? उच्यते-अवधेहि, एवंविधं हि कार्य ॐ वशात् गुप्तं कुत्रचित्कविर्न विवृणोति चेत् सर्वज्ञोपि तत्कथमिदमित्यभिदध्यात् । अत्रेमं च प्रमादादुपस्थितं ध्वंसितं वृद्धयोः सन्तापकरं कैकेयीविष यकं वृत्तान्तं कविरुत्तरत्र व्यक्तीकरिष्यति । युद्धकाण्डे सीतामधिकृत्य “ विजगऽत्र कैकेयी क्रोशन्ती कुररी यथा ” इत्युक्तत्वा कैकेयीविषयक सीता
॥ १९७॥ ॥
ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितम् । ह्रादनं वचनं स्रतो देव्या मधुरमब्रवीत् ॥ १५ ॥
अध्वना वातवेगेन सम्भ्रमेणातपेन च । न विगच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा ॥ १६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वचनमेवाह “सकामा भव कैकेयि इतोऽयं कुलनन्दनः” इति । इदं सीताहृदयम् । कैकेय्याः राज्यलाभेनैवाभीष्टसिद्धेः । रामविवासनाभ्यर्थनस्येदमाकू तम् । रामविवासने हि तद्वियोगं क्षणमपि सोढुमक्षमा सीताप्येनमनुगच्छेत् सा च लोकोत्तरसुन्दरी केनाप्यपहियेत तस्यां च हृतायां रामः स्वतएव | नश्येत् ततो मे राज्यं सुप्रतिष्ठितं स्यात्, अन्यथा लब्धेनापि राज्येन न किञ्चित्प्रयोजनम्, यतो रामगुणपरवशः सर्वोपि जनः तद्विधेयः स्यात् तस्माद्रामोपि विनाशाय विवासनीय इति । इदमेव सीतोक्तं रामोप्यारण्यकाण्डे 'सुप्तप्रमत्त कुपितानां वचनैर्भावज्ञानं दृष्टम्' इतिन्यायेन वक्ष्यति "कञ्चित्सकामा कैकेयी सुखिता सा भविष्यति । या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ।” अन्यत्रच " यदभिप्रेतमस्मासु प्रियं वरवृतं च यत् । कैकेय्यास्तत्सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण ॥” इति । इममेवार्थे पूर्वसर्गान्ते सूचितवान्- “जानकी तु महाराज निश्वसन्ती तपस्विनी । भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता । अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी । तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत्। उदीक्षमाणा भर्तारं मुखेन परि | शुष्यता। मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ॥” इति । अत्र रोदनमवचनं परिशुष्यता मुखेन भर्तृवीक्षणं पुनः सुमन्त्रवीक्षणं बाष्पमोचनं च | कुर्वन्त्या पूर्वोक्तार्थस्मरणम्, तत एवं स्तब्धता, भर्तृसुखवीक्षणेन वक्तुमनईत्वज्ञानं बाष्पमोचनेन सूतवीक्षणेन च श्वश्रूं प्रत्यकथनीयत्वद्योतनं चिंति व्यज्यते । तत्र सीतयोक्तं प्रामादिकमिति जुगोप । अत्र तु स्वस्यैव प्रमादोत्थं व्याजेन परिहृतवान् ॥ १५ ॥ अध्वनेति । अध्वना अध्वगमनेन । सहसा जल्पितं हठात्सीतयोक्तं वाक्यमिदानीं मा मां न प्रतिभातीति सुतः प्रमादात्पर्युपस्थितं तद्वाक्यं ध्वंसयित्वा देव्याः कौसल्यायाः ह्रादनं ह्रादकरम् वचन
For Private And Personal Use Only
टी.अ.कां. स ६०
॥ १९७॥